संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

संस्कृताध्याापकपरिशीलनवर्गः समारब्धः

SCERT इत्यस्या: संस्थायाः नेतृत्वे नवाध्यापकपरिशीलनवर्गः पालक्काट्जिल्लायां मुण्डूर्ग्रामे IRTC इत्यस्मिन् केन्द्रे समारब्धः। षड्दिवसीयोऽयं परिशीलनवर्गे पञ्चाशदधिकाः संस्कृताध्यापकाः वर्तन्ते । आवासीयरीत्या आयोजितेऽस्मिन् वर्गे प्रातः षट्वादनादारभ्य रात्रौ दशवादनपर्यन्तं कार्यक्रमाः विद्यन्ते।

परिशीलनवर्गस्यास्य औपचारिकोद्घाटनं मुण्डूर् ग्रामपञ्चायत्त् अध्यक्षा श्रीमती सजिता एम्. के. कृतवती। ब्लोक् विकासकार्याध्यक्षा प्रिया ओ.वि च पालक्काट् विद्याभ्यासोपनिदेशकः श्री पि.वी. मनोजकुमारश्च अध्यापकप्रशिक्षणकेन्द्रस्य अध्यापिका श्रीमती के.वि. राधा च भाषणं कृतवन्तः।

SCERT संस्कृतविभागस्य गवेषकः श्रीकण्ठः परिशीलनवर्गस्य समायोजको वर्तते। परिशीलनवर्गे विशिष्टव्यक्तीनां नेतृत्वे प्रशिक्षणं च सांस्कृतिककार्यक्रमाः च कायिकक्षमतावर्धनं च पठनयात्रा च समायोजितमस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button