संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेश

राष्ट्रिय-आपदाप्रतिक्रियाबलस्य दलं तुर्कीत: भारतं प्रत्यागतम्।

भूकम्पग्रस्ते तुर्कीदेशे दशदिनानाम् उद्धाराय ४७ सदस्यीयः दलं भारतात् प्रस्थित: आसीत्।

वार्ताहर- डॉ नरेन्द्रराणा सिरमौर: । भूकम्पग्रस्त: तुर्कीदेशात् दशदिनानां उद्धारकार्यक्रमस्य अनन्तरं ४७ सदस्यीयः राष्ट्रिय-आपदाप्रतिक्रियाबलस्य दलं भारतं प्रत्यागतम्। एनडीआरएफ-कुक्कुरदलस्य सदस्यौ रेम्बो, हनी च अपि अस्मिन् दले स्त: । गृहं प्रत्यागच्छन् एनडीआरएफ-जवानाः तुर्कीदेशे एतादृशं सम्मानं प्राप्तवन्तः, येन वक्षःस्थलं गर्वेण प्रफुल्लितं भविष्यति। अत्र तुर्कीदेशस्य जनाः उत्थाय एनडीआरएफ-जवानानां कृते करताडनं कृत्वा नमस्कारं कृतवन्तः । एनडीआरएफ-दलः गतदशदिनानि यावत् शक्तिशालिना भूकम्पेन प्रभावितं तुर्कीदेशाय “ऑपरेशन दोस्त” इत्यस्य अन्तर्गतं मानवीयसहायतां कृतवान् । ‘ऑपरेशन दोस्त’ इति सम्पन्नं कृत्वा भारतं प्रत्यागतवती एनडीआरएफ उपनिरीक्षिका शिवानी अग्रवालः अवदत् यत् मम सम्पूर्णं दलं भारतम् आगतम् । अस्मिन् दले पञ्च महिलाः अपि आसन् । तुर्कीदेशः भूकम्पेन विनाशः अभवत्, स्थितिः च अतीव-गम्भीरा अस्ति । वयं प्रभावितानां जनानां साहाय्यं कर्तुं भावनात्मकरूपेण च समर्थनं कर्तुं दलरूपेण कार्यं कृतवन्तः। भारतस्य एनडीआरएफ-कर्मचारिणां तुर्कीदेशस्य विभिन्नेषु भूकम्पग्रस्तक्षेत्रेषु उद्धार-अन्वेषण-कार्यक्रमेभ्यः प्रत्यागतानां अदाना-विमानस्थानके हार्दिकं स्वागतं कृतम्। सामाजिकमाध्यमेषु वायरल्-वीडियो-मध्ये दृश्यते यत् जनाः विमानस्थानकस्य अन्तः स्थित्वा करताडनं च कृतवन्त:। ते एनडीआरएफ-संस्थायाः स्कवॉडदलस्य अपि अभिवादनं कुर्वन्त: सन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button