संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

श्रीज्वालपादेवीस्नातकोत्तर-आदर्श-संस्कृत-महाविद्यालये आगामिनि नवरात्रौ नवभवनस्य आधारः स्थापितः भविष्यति

समितिमाध्यमेन जनै: क्रियते सहभागितायां लक्षश: दानं।

पौड़ी/कोटद्वार । श्रीज्वाल्पादेवीमन्दिरसमितिः, ज्वालपाधामपौडीगढ़वाले विगतपञ्चाशत् वर्षेभ्यः संस्कृतसनातनसंस्कृतेः उत्थानार्थं निरन्तरतया सक्रिया अस्ति। १९७३ तमे वर्षे श्रीज्वाल्पाधाम- संस्कृतविद्यालयस्य स्थापना अभवत् । अस्मिन् विद्यालये षष्ठतः द्वादशपर्यन्तं (प्राथमिकतः मध्यमपर्यन्तं) संस्कृतभाषाशिक्षा प्रदत्ता भवति । १९९७ तः शास्त्रीस्तरीयगुरुकुल-आधारिता शिक्षा पर्यन्तं सर्वेषां छात्राणां कृते मन्दिरसमित्या व्यवस्थापिता भवति। सर्वेषां छात्राणां कृते भोजनं छात्रावासस्य च सुविधाः निःशुल्काः सन्ति।
२०२२ तमे वर्षे केन्द्रीयसंस्कृतविश्वविद्यालयेन दिल्लीद्वारा स्नातकोत्तरस्तरपर्यन्तं संस्कृतशिक्षाप्रदानानन्तरं ज्वाल्पाधाम्नि छात्राणां संख्यायां अपेक्षिता वृद्धिः अभवत् । वर्तमानसत्रे ८० छात्राः अत्र संस्कृतशिक्षां गृह्णन्ति । महाविद्यालयस्य प्राचार्यस्य डॉ. ममतामेहरा इत्यस्या: निर्देशने शैक्षणिकक्रियाकलापानाम् अतिरिक्तं क्रीडा-सांस्कृतिक-क्रियाकलापानाम् स्पर्धासु अपि महाविद्यालयेन अनेके पदकानि प्राप्तानि सन्ति। अत्र छात्राणां जीवनस्य अभिन्नः भागः योगः अभवत् । योगाचार्य: प्रदीपथपलियाल: प्राणायामयोगव्यायामस्य आचार्य: वर्तते । आचार्य भास्करममगाई छात्रान् संध्यावंदनं, रुद्रीपाठं, रुद्राभिषेकं दिनचर्यानुसारेण शिक्षयति। प्राचार्यः अन्ये च शिक्षकाः छात्राणां मध्ये संस्कृतवार्तालापं प्रवर्धयितुं व्यक्तित्वविकासं प्रवर्धयन्ति। सङ्गणकशिक्षणस्य सम्यक् व्यवस्था अस्मिन् महाविद्यालये उपलभ्यते।

आङ्ग्लादिविषया: अपि अत्र पाठ्यन्ते । क्रीडायाः महत् भूमिः अस्ति । अस्मिन् स्थले छात्राः वॉलीबॉल, फुटबॉल इत्यादीनि क्रीडाः क्रीडन्ति । स्नातकोत्तरसंस्कृतशिक्षायाः मान्यताप्राप्तेः अनन्तरं उच्चवर्गाणां कृते अधिककक्ष्याणां आवश्यकतां दृष्ट्वा समितिः केचन कक्ष्याः निर्मातुं संकल्पं कृतवती । अस्मिन् दातारः अग्रे आगन्तुं आरब्धाः सन्ति। श्रीमती जयंती थपलियाल: (श्रीकोटत:) (सम्प्रति देहरादूननिवासी) भवननिर्माणार्थं समितिं प्रति एकलक्षरूप्यकाणि दानं कृतवती। समिते: अध्यक्ष: कर्नलशांतिप्रसादथपलियाल: अपि एकलक्ष रुप्यकाणि योगदानन प्रदत्तं । वरिष्ठ-उपाध्यक्षः विजयचन्द्रडण्डरियालमहोदयः १.२५ लक्षरूप्यकाणां राशिं दत्त्वा अपरं एकलक्षं त्रयोदशसहस्ररूप्यकाणि प्रेषितवन्तः। सप्ततिसहस्ररूप्यकाणि अपि दास्यति सः संकल्पितवान् अस्ति। श्री नागेन्द्रथपलियाल: प्रशासक: मन्दिरसमिते: प्रेरणया श्री एसएसराव: महाविद्यालयभवननिर्माणहेतु: समितिसार्धं दक्षं रुप्यकाणि प्रदत्तवान् । स्वप्रयत्नेन शशिकलामहोदया त्रिलक्षसप्ततिसहस्ररूप्यकराशिं समितिं प्रति प्रस्तुतवती। समितिः नागेन्द्रवर्याय इत्यस्मै धन्यवादं ददाति, दातृणां भावनानां स्वागतं च करोति, कृतज्ञतां च प्रकटयति।
अस्य भवनस्य निर्माणे व्ययः ४०-४५ लक्षरूप्यकाणां परिधिः भविष्यति इति समितिः अनुमानं कृतवती अस्ति। समितिः दातृभ्यः अनुरोधं करोति यत्, सज्जनाः अस्मिन् पुण्यकार्ये यत्किमपि योगदानं दातुम् इच्छन्ति, तेषां अवश्यमेव कर्तव्यम्। आगामिनि नवरात्रौ भवनस्य आधारः स्थापितः भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button