नगरनिगमप्रेक्षागृहकोटद्वारे ” नशा उन्मूलनम्” इति द्विदिवसीया कार्यशाला राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषद्द्वारा समायोजिता।
2025 पर्यन्तं नशामुक्त: उत्तराखण्ड: इत्यभियानम् अनवरतम्

कोटद्वारनगरनिगमप्रेक्षागृहस्थले द्विदिनात्मककार्यशालायां “प्रफुल्लितछात्राः समृद्धः उत्तराखण्डः” इत्यस्य कार्यक्रमस्य अन्तर्गतं, राज्यशैक्षिकानुसन्धान-प्रशिक्षणपरिषद्- उत्तराखण्डद्वारा ” नशा-उन्मूलनम्” इत्यायोजनं समारब्धम्।
2025 पर्यन्तं नशामुक्त: उत्तराखण्ड: इत्यभियानम् अनवरतम् जायमानम् अस्ति तदाधारेणैव राज्यस्य द्विदिवसीया कार्यशाला कोटद्वारे समारभत्।
कार्यक्रमस्य उद्घाटनं पूर्वशिक्षानिदेशक: महावीरसिंहबिष्ट:, खण्डशिक्षाधिकारी अमितचंदवर्य:, प्रो. सुरेंद्रढालवाला, प्रधानाचार्य: रविन्द्ररावत: रा.इ.का.सुखरौ, प्रधानाचार्या रा.बा.इ.का.कोटद्वारं दीपप्रज्ज्वलनेन कृतवन्त: । बालिकाभि: सरस्वतीवन्दना विहितं च पुष्पगुच्छेन अतिथीनां स्वागतम् अभवत्।
पूर्वनिदेशकेन स्ववक्तव्ये नशायाः दुष्परिणामान् विस्तरेण प्रकाश्य, युवसन्ततीनां सुदृढजीवनाय मार्गदर्शनं कृतवान्।
तै: कथितं यत् विवाहे, उत्सवे , परीक्षरूपेण अपि मद्यादीनां प्रयोगं वयं द्रष्टुं शक्नुम: तत् व्यसनं सर्वं वयमेव अपाकर्तुं शक्नुम: । शिक्षकरूपेण वयं छात्राणां लक्षणस्य अवलोकनम् अवश्यं कुर्म: । तस्मिन्नेव सन्दर्भे खण्डशिक्षाधिकारी अमितचन्दवर्य: अपि प्रेरणादायकं भाषणं प्रकल्पयन्, नशानिवारणस्य उपायानां विषये महत्वपूर्णं विवरणं प्रकटितवान्।
कार्यक्रमस्य संचालनं राज्यशैक्षिकानुसन्धान-प्रशिक्षणपरिषदुत्तराखण्डत: सोहननेगीमहोदयेन सम्यकतया सम्पादितम् तै: अभियानसन्दर्भे विस्तृत चर्चितं। विभिन्नसत्रेषु वक्तारः शिक्षाविदः, चिकित्सकाः च, युवसन्ततीनां नशाया: त्यागाय अनेकोपायान् उपदेशं च प्रदत्तवन्तः।
सत्रे वक्तारः नशायाः कारणानि, स्वास्थ्यपरिणामाः, सामाजिकदुष्प्रभावाश्च स्पष्टतया वर्णितवन्तः। ते अस्मान् नशत्यागाय प्रेरयन्तः, स्वस्थं समाजं निर्माणं प्रतिज्ञां प्रोत्साहितवन्तः।
समारोपे सर्वे उपस्थिताः व्यक्तयः, “नशामुक्तः भारतः” अस्माकं लक्ष्यं इत्यस्मिन संकल्पं कृतवन्तः। इयं कार्यशाला यूनां मनसि चेतनां जागृतिं कुरुतेति निश्चितम्।
अस्मिन् सन्दर्भे राज्यशैक्षिकपरिषद: भूमिका अतीव प्रशंसनीया । समाजे नशानिवारणं शिक्षायां शिक्षकद्वारा एव सम्भवमिति वक्तारः सम्यक् बलं दत्तवन्तः।







