उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

सप्ततितमगढ़वालपदकस्य अन्तिमोच्चनिर्णयी महापदकन्दुकक्रीडा

गढ़वालसैन्यदलं (षोडशतमं) तथा दूनसिटी-एफसी इत्यनयो: द्वन्द्वस्पर्धा

गढ़वालस्य सुप्रसिद्धस्य स्वर्गीयशशिधरभट्टस्य स्मृतौ समर्पिता राष्ट्रियपदकन्दुकस्पर्धा सप्ततितमगढ़वालकोटद्वारस्य स्वर्गीयशशिधरभट्टराजकीयक्रीडांगणे अद्यापि सम्पूर्णा।
उपविजेतृस्पर्धाया: पूर्वं “बेटी बचाओ, बेटी पढ़ाओ, बेटी खिलाओ” इत्येतस्य सन्देशस्य प्रचाराय बालिकानां मैत्रिपूर्णप्रतियोगिता पौड़ीगढ़वालस्य मालनीरिवरवैली-एफसी तथा मां-गंगाहरिद्वार-एफसी इत्यनयो: मध्ये आयोजिता।

उद्घाटनं समाजसेविना श्रीधर्मेन्द्रसिंहेन, योगाचार्यया श्रीमतीसुनीतापटवालया, शिक्षिकया श्रीमतीलक्ष्मीरावतया च सम्पन्नम्। प्रतियोगितायां हरिद्वारस्य दलं ३-० इत्यनेन विजयिनी अभवत्। मुख्यातिथिना विजयी-उपविजयीदलाभ्यां पदकं स्मृतिचिह्नं च समर्पितं कृतम्।

उपविजेतृपूर्वक्रीडायास्पर्धाया: उद्घाटनं “मिक्सरेस्टोरेंट-एण्ड-होटेल्स-ऑनर” इत्यत: श्रीसन्तोषसिंहरावतेन विधिवत् कृतम्।
क्रीडाया: आरम्भे उभयदलौ आक्रमकं प्रदर्शनं अकुर्वताम्।
दूनसिटीदलस्य सौरवनेगिना २३ निमिषे प्रथमं प्रहारकं गोलं कृतं, यस्मिन्नेव दलं अग्रे अगच्छत्। ५३ निमेषे युनाइटेड-कोटद्वारस्य अनीशे पुनः दलं समतुल्यं कृतम्।

७० निमिषे दूनसिटी-एफसी-दलस्य द्वितीयं गोलं कृतं, तेन दलं पुनः अग्रे अगच्छत्। ततः ७३ पलेषु तथा ८४ पलेषु भूपेशेन द्वौ गोलौ कृतौ।
८६ निमिषे नवीनः पञ्चमं गोलं कृतवान्। अन्ततः दूनसिटी-एफसी-दलं ५-१ इत्यनेन विजयिनी अभवत् तथा प्रथमवारं गढ़वालपदकस्य अन्तिमस्पर्धायां प्रविष्टम्।

रविवासरे सप्ततितमं गढ़वालपदकं अन्तिममहास्पर्धां सम्प्राप्तं प्रातः ११ वादने महास्पर्धा प्रारभ्यते, यत्र गढ़वाल-रायफल्स् (षोडशतम:) तथा दूनसिटी-एफसी इत्यनयो: मध्ये स्पर्धा भविष्यति।
तद् पूर्वं प्रातः १० वादने वेटरनक्रीडकानां (४० वर्षोपरि) यथा कोटविकासखण्डत: पौड़ीप्लाटून्स् तथा लैंसडौनलायन्स इत्यनयो: मध्ये प्रतियोगिता आयोजिता भविष्यति।

अद्यतने स्पर्धाया: निर्णायका: प्रकाशः, रोहितः, शिवमः आसन्। अधिकृतः ऋतिकः, शिवमनेगिः, इन्द्रः च आसन्।
श्लाघ्याटिप्पणी सुरदीपगुसाईंद्वारा तथा मेहरबाननेगिना कृता।
स्वर्गीयशशिधरभट्टस्मृतिक्रीडासंस्थायाः अध्यक्षः अरुणकुमारभट्टः, उपाध्यक्षः मनीषभट्टः, सचिवः सुनीलरावतः, सहसचिवः गोपालजसोला, कोषाध्यक्षः अरविन्दबंसलः च अन्ये समस्तक्रीडाप्रेमिणः उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button