संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनहरिद्वार

देहरादूने अभवत् अखिलभारतीयज्योतिष-सम्मेलनम्

• संस्कृतभाषा एव आधारः अस्ति भारतीयसंस्कृते:, ज्ञानपरम्पराया:– “पर्यटनमन्त्री सतपालमहाराज:”

• संस्कृतभाषा भारतस्य आत्मा अस्ति–“श्रीशिवप्रसादखाली”

देहरादून। अखिलभारतीयज्योतिषसम्मेलनस्य आयोजनं अनमोलग्रामस्वराजसंस्थानदेहरादूनद्वारा तथा उत्तराखण्डसंस्कृताकादमीहरिद्वारद्वारा संस्कृतस्य प्रचारार्थं ज्योतिषशास्त्रस्य रक्षणार्थं च २०२३ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के सनातनधर्ममन्दिरप्रेमनगरदेहरादूने अभवत्। पर्यटनमन्त्री आदरणीयः सतपालमहाराजः अवदत् यत् संस्कृतभाषा एव आधारः अस्ति भारतीयसंस्कृते:, ज्ञानपरम्पराया:।
अस्माकं राज्यस्य विद्वान्ज्योतिषीपण्डितानां कृते एतादृशाः योजनाः करणीयाः येन ते विदेशेषु अपि वैदिकसंस्कृतेः प्रसारं कर्तुं शक्नुवन्ति।
उत्तरखण्डसंस्कृत-अकादम्याः सचिवः शिवप्रसाद खालीवर्येण उक्तं यत् संस्कृतभाषा भारतस्य आत्मा अस्ति। अवश्यम् भारतस्य वैज्ञानिकतामधिगन्तुं संस्कृतमवगन्तव्यं च ज्योतिषविद्या अस्मान् भूतस्य भविष्यस्य वर्तमानस्य च परिचयं कारयति ।
लोकगायने तथा लोकनृत्यप्रतियोगितायां सोनाक्षी प्रथमस्थानं देवेशदेवली द्वितीयस्थानं च विद्याविहार-अकादम्या: छात्रा: तृतीयस्थानं प्राप्तवन्त:। कार्यक्रमस्य कृते माननीयकैबिनेटमंत्री सर्वान् सम्मानितवान् । विशेषातिथि: संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः संस्कृतं ज्योतिषं च परस्परं पूरकौ इति उक्तवान्।
उत्तराखण्डसंस्कृत-अकादम्याः शोधपदाधिकारिणा डॉ. हरिशचन्द्रगुरुराणी इत्यनेन उक्तं यत् उत्तराखण्डत: उत्तरप्रदेशत: पञ्जाबत:, हरियाणात:, हिमाचलप्रदेशत: ६२ विद्वांसः ज्योतिषसम्मेलने भागं गृहीतवन्तः तथा च सामान्यजीवने ज्योति स्वस्थ्यविद्यायाः प्रभावान्, तेषां उपायान् इत्यादयः प्रकाशितवन्तः सर्वै: शोधपत्रमपि वाचितं च अकादमी सर्वान् सम्मानितवती । कार्यक्रमात् पूर्वं यज्ञः कृतः।श्री मार्तण्डदेवसंस्थानस्य अनुसन्धनपरिषदः शिक्षकैः वैदिकाह्वानं कृतम्। सांस्कृतिककार्यक्रमस्य संचालनं सोनाक्षीदेवेशसंगीत- -अकादमीद्वारा कृतम्।
डॉ. संतोषखण्डूरी राजेन्द्रसेमवाल: एवं डॉ. हरिशचन्द्रगुरुरानी एवं डॉ. सुनीलपैन्युली कार्यक्रमसंचालनं एवं संयोजनं कृतवन्त: च पीयूषशास्त्री जगदीशलखेडा गोपालचंद्र: कुसुमकण्डवाल: उमासकलानी मुकेशकाला आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button