उत्तराखण्ड

आदर्श–संस्कृत–ग्रामे कोटग्रामे मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना

आदर्श–संस्कृत–ग्रामे कोटग्रामे मादक–पदार्थ–निवारणविषयकं सशक्तं जनजागरण–अभियानं आयोजितम्। अस्य अभियानस्य उद्देश्यः ग्रामवासिनः मादक–पदार्थ–सेवनात् उत्पद्यमानानां सामाजिक–पारिवारिक–स्वास्थ्यगत–दुष्परिणामानां विषये जागरूकान् कर्तुं ग्रामं च सर्वथा मादक–पदार्थ–मुक्तं निर्मातुम् आसीत्।

अस्मिन् अवसरें सर्वसम्मत्या निर्णयः कृतः यत् ग्रामे यदि कश्चित् मादक–पदार्थस्य उपयोगे, विक्रये अथवा सञ्चये संलिप्तः गृहीतः भविष्यति, तर्हि तस्मै ₹२५,००० (पञ्चविंशतिसहस्ररूप्यकाणि) अर्थदण्डः आरोपयिष्यते तथा विधिक–कार्यान्वयनं अपि अनिवार्यतया क्रियते। वक्तृभिः स्पष्टं प्रतिपादितं यत् आदर्श–संस्कृत–ग्रामः सन् कोटग्रामे एतादृशानां दुष्क्रियाणां किञ्चिदपि स्थानं नास्ति।

अभियानस्य अन्तर्गतं मोरी–जखोल–मुख्यमार्गे जनजागरण–पदयात्रा अपि निष्कासिता, यस्यां ग्रामपञ्चायतस्य सर्वाः महिलाः उत्साहपूर्वकं सहभागीभूताः। पदयात्रामाध्यमेन मादक–पदार्थ–निवारणस्य सन्देशः जनसामान्येषु प्रभावीरीत्या प्रसरितः।

अस्य कार्यक्रमस्य नेतृत्वं ग्रामप्रधानया श्रीमती संगीता रावत महोदयया तथा आदर्श–संस्कृत–ग्रामस्य प्रशिक्षकेन आचार्य माधव पौडेल महोदयेन कृतम्। अस्मिन् अवसरें समाजसेवकः श्रीलायवरसिंह रावत, श्रीहृदयसिंह रावत, श्रीरोहिताश उनियाल, श्रीकिशोर उनियाल इत्यादयः ग्रामस्य अन्ये च गणमान्यनागरिकाः उपस्थिताः आसन्।

अभियानस्य समापनं ग्रामं कोटग्रामं स्थायिरूपेण मादक–पदार्थ–मुक्तं कर्तुं सामूहिकसंकल्पेन कृतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button