संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

संस्कृतभाषायाम् अभवत् हिमालयप्रतिज्ञा।

।। "हिमालयप्रतिज्ञा" - हिमालय: अस्माकं देशस्य मुकुटमणि: अस्ति । पर्वताधिराज: हिमालय: संसारस्य बृहद् - भूभागस्य जलवायो:, जलजीवनस्य, पर्यावरणस्य च मुख्याधार: अस्ति । अस्य हिमालयस्य समुन्नतं शिखरम् अस्मान् सततम् अभिनवां प्रेरणां ददाति । अहं प्रतिज्ञां करोमि यत् हिमालयस्य रक्षायै सततं प्रयत्नं करिष्यामि । तादृशं कार्यं न करिष्यामि, येन हिमालयस्य हानिः भवेत् । अतः 'हिमालयस्य रक्षा जीवनस्य सुरक्षा' इति संकल्पः मनसि निधाय कार्यं करणीयम्।।

“यथा संस्कृतभाषा देववाणी हिमालयोपि देवतुल्यं तथा”- “श्रीशिवप्रसादखाली”

।देहरादूनं।उत्तराखण्डसंस्कृताकादम्या: सचिव: , संस्कृतशिक्षानिदेशक: एवं च शिक्षानिदेशक: शिवप्रसादखालीवर्येण हिमालयदिवसावसरे ‘हिमालयप्रतिज्ञा’ संस्कृतेन समादिष्ट: च विद्यालयेषु अध्यापकै: छात्रै: च संस्कृतेन हिमालयप्रतिज्ञा स्वीकृता। अस्मिन्शपथसन्दर्भे तैरुक्तं यत् यथा संस्कृतभाषा देववाणी हिमालयोपि देवतुल्यं तथा तस्य संरक्षणस्य दायित्वम् प्रत्येकस्य अस्माकमेव । तस्य संरक्षणोपाये संवेदनशीला: भवाम: । तै: प्रोक्तं यत् हिमालयरक्षणाभियाने ‘हिन्दुस्तान’ इत्यस्य समाचारपत्रस्य महत्वपूर्णभूमिका वर्तते । तेन अनुसारेण जना: जागरुका: भवन्ति।

श्रीगुरुरामराय-इण्टरकालेज-नेहरुग्रामदेहरादूने अध्यापकै: छात्रै: च संस्कृतेन हिमालयप्रतिज्ञा स्वीकृता सर्वै: उच्चै: प्रोक्तं यत्-
हिमालय: अस्माकं देशस्य मुकुटमणि: अस्ति । पर्वताधिराज: हिमालय: संसारस्य बृहद् – भूभागस्य जलवायो:, जलजीवनस्य, पर्यावरणस्य च मुख्याधार: अस्ति । अस्य हिमालयस्य समुन्नतं शिखरम् अस्मान् सततम् अभिनवां प्रेरणां ददाति । अहं प्रतिज्ञां करोमि यत् हिमालयस्य रक्षायै सततं प्रयत्नं करिष्यामि । तादृशं कार्यं न करिष्यामि, येन हिमालयस्य हानिः भवेत् । अतः ‘हिमालयस्य रक्षा जीवनस्य सुरक्षा’ इति संकल्पः मनसि निधाय कार्यं करणीयम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button