पंजाबप्रान्तस्य रूपनगजनपदस्य संस्कृतभारत्या: संगोष्ठी कीरतपुरे सम्पन्न:
श्रीमान् हैपीशर्मा जिलासंयोजक:, रमेशशास्त्री सह-संयोजकरूपेण, श्रीमान् अवनीशशास्त्री जिलासम्पर्कप्रमुखरूपेण, श्रीराकेश: व्यवस्थाप्रमुखरूपेण, श्रीपंकज: प्रचारप्रमुखरूपेण नियुक्ता: अभवन्।

शनिवासरे पंजाबप्रान्तस्य रूपनगजनपदस्य
संस्कृतभारत्या: संगोष्ठ्या: कार्यक्रम: कीरतपुरस्थाने संजाता । कार्यक्रमेऽस्मिन् विंशत्यासन्ना: जना: संयुक्ता: यत्र संस्कृतभारतीपंजाबस्य अध्यक्ष: श्रीमान् डॉ. वीरेन्द्रकुमार: , प्रान्तसहमन्त्री श्रीमान् अजयकुमार: आर्य:, पटियालाविभागत: सहसंयोजक: डॉ ओमनदीपशर्मा च समुपस्थिता: आसन् ।
संगोष्ठ्याम् अस्यां डॉ. विरेन्द्रेण उक्तं यत् ‘संस्कृतभाषाया: अध्ययनम् अस्माकं कृते अनिवार्यमस्ति । यदि वयं संस्कृतं न पठामश्चेत् अस्माकं ज्ञानधारा शुष्का भविष्यति । अत: येन केन प्रयत्नेन निश्चयं कृत्वा संस्कृतस्य अध्ययनं स्यादेव’ । डॉ. ओमनदीपेन संस्कृतस्य आवश्यकताविषये स्वकीयां वार्तायामुक्तं यत् अस्माकं भाषा एव अस्माकं संस्काराणां परिचायिका भवति अत्रैव उपस्थितेन अजय-आर्येण संस्कृतभारत्या: परिचयं दत्वा संस्थाया: विभिन्नानां प्रकल्पानां विषये चर्चा कृता । पुन: तस्य नगरीयजनै: सह विचारचर्चा अपि जाता ।
गोष्ठ्यानन्तरं दायित्वघोषणापि संजाता। यत्र श्रीमान् हैपीशर्मा जिलासंयोजक:, रमेशशास्त्री सह-संयोजकरूपेण, श्रीमान् अवनीशशास्त्री जिलासम्पर्कप्रमुखरूपेण, श्रीराकेश: व्यवस्थाप्रमुखरूपेण,
श्रीपंकज: प्रचारप्रमुखरूपेण नियुक्ता: अभवन्।
कार्यक्रमेऽस्मिन् नगरीया: गुणाढ्या: जना: समुपस्थिता: आसन् येषु श्रीमान् सुरेन्द्रपालकौशिक:, श्रीमान् पंकज:, श्रीमान् मनीशगौतम:, श्रीमान् लखविन्द्रपाल:, श्रीमान् मदनलाल:, श्रीमान् डा. लोकबन्धुगौतमादय: समुपस्थिता: आसन् । गोष्ठ्या: समापनं कल्याणमन्त्रेण जातम् ।







