संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

राजकीयस्नातकोत्तर-महाविद्यालय-रामनगरेभारतीय-संस्कृति-ज्ञान-परीक्षायाः प्रमाणपत्रवितरणसमारोह: सम्पन्न:

रामनगरम् । भारतीय-संस्कृति-ज्ञान- परीक्षा- प्रकोष्ठेन , विश्व-गायत्रीतीर्थ- शान्तिकुञ्ज-हरिद्वार- उत्तराखण्ड- द्वारा भारतीय-संस्कृति-ज्ञान-परीक्षा आयोजिता आसीत् । यस्य प्रशस्तिपत्र-प्रमाणपत्र-वितरण-समारोहोऽद्य सम्पन्नतां यातः।
अयं कार्यक्रमः पी.एन.जी.राजकीयस्नातकोत्तर-महाविद्यालय- रामनगरस्थ- संस्कृतविभागस्य समन्वयेन समायोजितः ।

भारतीय-संस्कृति-ज्ञान-परीक्षाद्वारा छात्र-छात्राभ्यो भारतीयसंस्कृतिं, सभ्यतां संस्कारान् च प्रति परिज्ञानार्थं समाजेन सह विद्यार्थिष्वपि सदाचारः सद्विचारः, व्यवहारः, सच्चरित्रादि-विशेषगुणाधानार्थं प्रचारार्थं प्रसारार्थं च प्रतिवर्षं समायोज्यते । अस्यां परीक्षायां (60) षष्टिः विद्यार्थिनः नामाङ्कनं कारितवन्तः । एतेषु अष्टात्रिंशत् (38) छात्र-छात्राभिः परीक्षा लिखिता ।
तत्र अष्टौ (8) विद्यार्थिनः श्रेष्ठस्थानं लब्धवन्तः त्रिंशच्च (30) सामान्यश्रेणीं प्राप्तवन्तः।
स्थानप्राप्तकर्तारो विद्यार्थिनः कार्यक्रम-अध्यक्षेण प्राचार्यप्रोफेसर एम. सी. पाण्डे महोदयेन मञ्चस्थैश्च विद्वद्भिः प्रमाणपत्रादीनि प्रदाय पुरस्कृताः ।
परीक्षायामस्यां सहयोगोपलक्ष्ये रामनगरस्थ-महाविद्यालयस्य प्राध्यापका अपि प्रशस्तिपत्रादिद्वारा समारोह-अध्यक्षेण सम्मानिताः। एतेषु डॉ. मूलचन्द्र शुक्लः ,डॉ. योगेशचन्द्रः,डॉ.दीपक खाती, डॉ. डी. एन. जोशी, डॉ. कृष्णा भारती, डॉ. नितिन ढोमने इत्यादयः।
प्राचार्येण प्रोफेसर एम. सी. पाण्डे महोदयेन स्वीये अध्यक्षीयोद्बोधने छात्र-छात्राभ्यो भूयांसि वर्धापनानि प्रेषितानि । तेन तज्जीवने भारतीयां संस्कृतिं संस्कारान् च अपनेतुं सर्वसमाजस्य कृते च स्व-स्वकर्तव्यपरिपालनाय वार्ता निगदिता। विशेषरूपेण विद्यार्थिनः कक्षायां समुपस्थाय पठितुं सांस्कृतिकायोजनेषु प्रतिभागं कर्तुं च प्रेरिताः।कुलानुशासकेन
प्रोफेसर आर. डी. सिंह महोदयेन विद्यार्थिभ्यः नवम्बरमासीयपरीक्षार्थं शुभकामनाः प्रदत्ताः। डॉ. सुमनकुमारेण उक्तपरीक्षायै विद्यार्थिनः प्रोत्साहिताः।सञ्चालनं कुर्वन् संस्कृतविभागाध्यक्षः भारतीयसंस्कृति-ज्ञान-परीक्षायाः संयोजकः डॉ मूलचन्द्र-शुक्लः कार्यक्रमस्य संक्षिप्तं प्रास्ताविकं प्रास्तौत् नवम्बरमासे च आयोजयिष्यमाणायाः परीक्षायाः आयोजनसूचना, नामाङ्कनं परीक्षासन्नद्धतादिसन्दर्भे सूचनाः प्रदत्तवान्।
अन्ते डॉ. डी. एन. जोशी महोदयः प्राचार्येण सह समेषां कार्तज्ञ्यं विज्ञापयति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button