पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाबप्रान्त-पक्षतः गीता-ज्ञान-यज्ञः 10 दिनाङ्कतः 15 दिनाङ्कं यावत्

पटियालानगरे अर्बन् एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे, मन्दिरस्य समित्याः सहयोगेन गीता-जयन्ती-उपलक्ष्ये गीता-ज्ञान-यज्ञः इति नाम्ना साप्ताहिकस्य कार्यक्रमस्य शुभारम्भं जातम्

अजयकुमार-आर्य: । संस्कृतभारती पञ्जाबप्रान्तपक्षतः पटियालानगरे अर्बन् एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे, मन्दिरस्य समित्याः सहयोगेन गीता-जयन्ती-उपलक्ष्ये गीता-ज्ञान-यज्ञः इति नाम्ना साप्ताहिकस्य कार्यक्रमस्य शुभारम्भं जातम्। एतत् कार्यक्रमं 10 दिनाङ्कतः 15 दिनाङ्क पर्यन्तं चलिष्यति। अस्मिन् कार्यक्रमे प्रतिदिनं त्रय़ः चत्वारः वा अध्यायानां पठनं व्याख्यानं च भविष्यति। कार्यक्रमस्य उद्घाटनं प्रांतसहमंत्रिणा अजयकुमारार्येण , शिवमंदिरसमीतिप्रधानेन डी सी गुप्ता वर्येण दीपप्रज्वलनेन स्वस्तिवाचनेन च कृतम्। प्रथमे दिवसे पटियाला-विभाग-संयोजकः डॉ. ओमनदीपः मुख्यवक्ता रुपेण उपस्थितः । महोदयः भगवद्गीतायाः एकतः त्रि-अध्याय पर्यन्तं त्रयाणाम् अध्यायानां व्याख्यानं कृतवान्। स्वस्य उद्बोधने महोदयः सरलभाषाया, सुमधुररीत्या च भगवद्गीतायाः गूढान् विषयान् बोधित्वान्। प्रारम्भे गीताशिक्षणकेन्द्रस्य साधिके आशाभारद्वाजः गीताबजाजश्च त्रयाणां अध्यायानां चितानां श्लोकानां पाठनम् कृतवत्यौ। तदुपरान्त पटियाला जिला सम्पर्कप्रमुखः डॉ. रविदत्तः विषयस्य उपस्थापनं कृतवान्। महोदयेन भगवद्गीतायाः पृष्ठभूमि-विषये विस्तरेण उक्तम्। अस्मिन् अवसरे मक्खनलालः, छाजुरामः, राकेशकुमारः, पटियालाशिक्षणप्रमुखः डॉ. राहुलः, डॉ. रविः, इत्यादयः गणमान्याः जनाः उपस्थिताः आसन्। अस्मिन् कार्यक्रमे 50 जनाः भागं गृहीतवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button