संस्कृतभारतीपञ्जाबप्रान्त-पक्षतः गीता-ज्ञान-यज्ञः 10 दिनाङ्कतः 15 दिनाङ्कं यावत्
पटियालानगरे अर्बन् एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे, मन्दिरस्य समित्याः सहयोगेन गीता-जयन्ती-उपलक्ष्ये गीता-ज्ञान-यज्ञः इति नाम्ना साप्ताहिकस्य कार्यक्रमस्य शुभारम्भं जातम्
अजयकुमार-आर्य: । संस्कृतभारती पञ्जाबप्रान्तपक्षतः पटियालानगरे अर्बन् एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे, मन्दिरस्य समित्याः सहयोगेन गीता-जयन्ती-उपलक्ष्ये गीता-ज्ञान-यज्ञः इति नाम्ना साप्ताहिकस्य कार्यक्रमस्य शुभारम्भं जातम्। एतत् कार्यक्रमं 10 दिनाङ्कतः 15 दिनाङ्क पर्यन्तं चलिष्यति। अस्मिन् कार्यक्रमे प्रतिदिनं त्रय़ः चत्वारः वा अध्यायानां पठनं व्याख्यानं च भविष्यति। कार्यक्रमस्य उद्घाटनं प्रांतसहमंत्रिणा अजयकुमारार्येण , शिवमंदिरसमीतिप्रधानेन डी सी गुप्ता वर्येण दीपप्रज्वलनेन स्वस्तिवाचनेन च कृतम्। प्रथमे दिवसे पटियाला-विभाग-संयोजकः डॉ. ओमनदीपः मुख्यवक्ता रुपेण उपस्थितः । महोदयः भगवद्गीतायाः एकतः त्रि-अध्याय पर्यन्तं त्रयाणाम् अध्यायानां व्याख्यानं कृतवान्। स्वस्य उद्बोधने महोदयः सरलभाषाया, सुमधुररीत्या च भगवद्गीतायाः गूढान् विषयान् बोधित्वान्। प्रारम्भे गीताशिक्षणकेन्द्रस्य साधिके आशाभारद्वाजः गीताबजाजश्च त्रयाणां अध्यायानां चितानां श्लोकानां पाठनम् कृतवत्यौ। तदुपरान्त पटियाला जिला सम्पर्कप्रमुखः डॉ. रविदत्तः विषयस्य उपस्थापनं कृतवान्। महोदयेन भगवद्गीतायाः पृष्ठभूमि-विषये विस्तरेण उक्तम्। अस्मिन् अवसरे मक्खनलालः, छाजुरामः, राकेशकुमारः, पटियालाशिक्षणप्रमुखः डॉ. राहुलः, डॉ. रविः, इत्यादयः गणमान्याः जनाः उपस्थिताः आसन्। अस्मिन् कार्यक्रमे 50 जनाः भागं गृहीतवन्तः।