देववाणी-संस्कृतस्य प्रोत्साहनार्थं (स्कॉस्ट) जम्मूविश्वविद्यालयस्य कुलपतिना सह महन्तः रोहितशास्त्री इत्यस्य परिचर्चा।

जम्मू:- श्रीकैलखज्योतिष-वैदिक- संस्थान-ट्रस्ट इत्यस्य अध्यक्षः, राज्यपुरस्कारप्राप्तः महन्तः रोहितशास्त्री, जम्मूस्थशेर-ए-कश्मीर कृषि-विज्ञान-प्रौद्योगिकी- विश्वविद्यालयस्य (स्कॉस्ट) चट्ठा इत्यस्य माननीयकुलपतिना प्रोफेसर बी. एन. त्रिपाठी वर्येण सह साक्षात्कारं कृत्वा ट्रस्ट इत्यस्य वार्षिकपत्रिकां “कर्तव्यमार्ग”इत्येनां समर्पितवान्। जम्मू-कश्मीरप्रदेशे देववाणीसंस्कृतस्य प्रचारसंरक्षणप्रोत्साहनादिविषये तेन सह चर्चां कृतवान्।
शास्त्रिमहोदयेन उक्तं यत् जम्मू-कश्मीरप्रदेशे दीर्घकालपर्यन्तं न केवलं पठन-पाठनस्य,अपितु सम्पर्कभाषारूपेणापि संस्कृतस्य प्रयोगो जातः। अत्र बौद्धधर्मस्यापि प्रसारः पूर्वतः आसीत्।समग्रे भारतवर्षे बौद्धधर्मस्य मुख्यतत्त्वानि पालिभाषायाम् लिखितानि,परं जम्मू-कश्मीरप्रदेशे प्रथमवारं तानि संस्कृतभाषायामेव लिखितानि। तदा भारतदेशेन सह वैदेशिका अपि शिक्षार्थिनः अत्र संस्कृताध्ययनार्थमा गच्छन्तः आसन् ।
शास्त्री महोदयः उक्तवान् यत् विश्वविद्यालयस्य कुलपतिः प्रोफेसर बी. एन. त्रिपाठी महोदयस्य आदर्शे मार्गदर्शने च संस्थानं निरन्तरं प्रगतिमार्गे अग्रेसरत् अस्ति। गुणवत्तायुक्तशिक्षायाश्च क्षेत्रे विश्वविद्यालयः निरन्तरम् अग्रणीं भूमिकां निर्वहन्नस्ति।
माननीयकुलपतिः विश्वसिति यत् मया संस्कृतस्य प्रचारप्रसाराय प्रयासः करिष्यते।