जम्मू

महामहिम-उपराज्यपालवर्येण “कर्तव्यमार्ग” इति पत्रिकायाः तृतीयं संस्करणं विमोचितम्

🔵संस्कृत-अनुसन्धाने उच्च-मानदण्ड- स्थापनाय श्रीकैलखसंस्थानस्य प्रयत्नान् महामहिम-उपराज्यपालवर्यः प्रशंसति। 🔵यूनां ज्ञानवैभवं जम्मू-कश्मीरस्य भविष्यं निर्णेष्यति। सर्वकारस्य सर्वे विभागाः तान् सशक्तीकर्तुं, तेषां स्वप्नान् साक्षात्कर्तुं समर्थनं मार्गदर्शनं च दातुं संकल्पिताः इति उपराज्यपालः। 🔵ज्ञानेन साहसस्य,करुणायाः, त्यागस्य, निःस्वार्थसेवायाश्च मूल्यानि यूनां बोधं व्यक्तित्वं च समृद्धं कर्तुमावश्यकम्।

वार्ताहरः-डॉ. मूलचन्द्रशुक्लः। जम्मूः- दिसम्बरमासस्य (09)नवम दिनाङ्के महामहिम उपराज्यपालः श्रीमता मनोज सिनहा वर्येण राजभवने श्रीकैलखज्योतिषवैदिक- संस्थानट्रस्टद्वारा प्रकाशितायाः “कर्तव्यमार्ग”इति वार्षिक- गृहपत्रिकायाः तृतीयं संस्करणं विमोचितम्।

उपराज्यपाल महोदयेन पत्रिकायाः सम्पादने तत्परेभ्यः सम्पादकेभ्यः सर्वेभ्यः सदस्येभ्यश्च नैकाः शुभकामनाः प्रेष्यन्ते। संस्कृतस्य संवर्धनाय,प्रचारप्रसाराय, प्राक् ज्ञान-परम्परायाः अग्रे वर्धनाय अनुसन्धानक्षेत्रेषु च उच्च-मानदण्ड- स्थापनाय संस्थानसदस्यानां प्रयत्नाः प्रशंसिताः।

उपराज्यपालमहोदयेन प्रोक्तं यत्— “जम्मू-कश्मीरस्य भविष्यं तस्य युवशक्तौ वरीवर्ति। सर्वकारस्य सर्वे विभागाः तान् सशक्तीकर्तुं, तेषां स्वप्नान् पूर्त्यर्थं समर्थनं मार्गदर्शनं च दातुं प्रतिबद्धाः।युवजनेषु साहसस्य, करुणायाः, त्यागस्य, निःस्वार्थसेवायाश्च मूल्यानि यूनां व्यक्तित्वं समृद्धं कर्तुं ज्ञानस्य प्रादुर्भाव आवश्यकः।”

पत्रिकायाः सम्पादनं श्रीकैलख- ज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य अध्यक्षेण महन्तः रोहित शास्त्री इत्यनेन विहितम्। पत्रिकायां ख्यातसंस्कृत-विद्वद्भिः, युव-अनुसन्धानकर्तृभिश्च रचिताः अनेके शोधाभिनिवेशिताः लेखाः प्रकाशिताः।

श्रीकैलखज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य आर.के. छिब्बर, प्रोफेसर शरत शर्मा, निगम गुप्ता, सुनील शर्मा, विनय अग्रवालः, डॉ. संजय शर्मा इत्यादयः सदस्याः उपस्थिता आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button