उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतभारतीरुडकीद्वारा भारतीयप्रौद्योगिकीयसंस्थानेन सह प्रशिक्षण-कार्यशालायाः सफलसमापनम्

“राष्ट्रियपुनरुत्थानस्य दिशि सार्थकः प्रयासः”

संस्कृतभारत्या: च भारतीयप्रौद्योगिकीसंस्थानस्य व्यवस्थापन-अध्ययन-विभागस्य (DOMS), संस्कृतसमूहस्य च संयुक्ततत्त्वावधाने आयोजिते द्वादशदिने संस्कृत-शिक्षक-प्रशिक्षण-कार्यशालाया: सफलतया समापनं जातम्।

18 अगस्तात् 29 अगस्त 2025 पर्यन्तं प्रचलितायां अस्यां कार्यशालायाम् 82 प्रतिभागिनः पंजीकरणं कृतवन्तः, तेषु 75 जनाः नियमिततया प्रशिक्षणं प्राप्नुवन्। अस्य कार्यशालायाः प्रमुखोद्देश्यः आसीत्—विद्यालय-शिक्षकान् संवादात्मक-व्यावहारिक-शैल्यां संस्कृत-शिक्षणस्य प्रशिक्षणं दातुं, येन छात्रेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाः च विषये रुचिः गौरवबोधः च जाग्रियताम्।

कार्यशालायाः संरक्षक-स्वरूपेण माननीयः निदेशकः डॉ. कमलकिशोरः पन्तः, उत्तराखण्ड-संस्कृत-शिक्षा-निदेशकः डॉ. आनन्दः भारद्वाजः, संस्कृतभारती-उत्तराखण्ड-प्रान्तीयमन्त्री श्रीः गिरिशः तिवारी, संगठनमन्त्री श्रीः गौरवः च गरिमामयेन सन्निधानेन समापन-सत्रे उपस्थिताः आसन्।

मार्गदर्शक-स्वरूपेण श्रीः अनिलः गौरीशेट्टी प्रो. रजत: अग्रवालः , श्रीः नवलकिशोरः पन्तः (संस्कृतभारती), डॉ. भारती शर्मा (अध्यक्षा, संस्कृतभारतीरूड़कीत: विशेषं योगदानं दत्तवन्तः।

संस्कृतभारती-कार्यकारिण्याः सदस्याः—श्रीमती श्रद्धा हिन्दू (मन्त्री), आचार्यः विष्णुः गौडः (शिक्षणप्रमुखः), श्रीः पुरुषोत्तमः (पत्राचारप्रमुखः), श्रीः राहुलः जखमोला (सम्पर्कप्रमुखः), डॉ. विजयत्यागी, डॉ. रामेश्वरः (खण्ड-सहसंयोजकौ) च सर्वे सक्रियं दायित्वं ऊढवन्त: ।

अस्मिन् कार्ये समाजस्य, प्रशासनस्य, शिक्षणसंस्थानानां च सहयोगः अप्रतिमः आसीत्। विशेषतया माध्यमिक-उत्तरमाध्यमिक-विद्यालयप्रधानाचार्यः, शोधछात्राः, समाजसंस्थाः—राष्ट्रस्वयंसेवकसङ्घः, संस्कारभारती, राष्ट्रसेविका-समिति, अरुणिमा ए थिङ्किङ्ग् वेव्, भारतविकासपरिषदः इत्यादयः महत्त्वपूर्णं योगदानं दत्तवन्तः।

कार्यशालायाः मुख्यविषयाः-

संस्कृतम् एवं मूल्यशिक्षा।

राष्ट्रनिर्माणे योगदानम्।

रोजगारपरकशिक्षायाः प्रसक्तिः।

आधुनिकविज्ञाने संस्कृतस्य उपयोगिता।

विश्वभाषारूपेण संस्कृतस्य सम्भावनाः।

मुख्यफलितानि

प्रतिभागिनां सतत-उपस्थिति:।

संस्कृतभारती-रूडकी-जनपदस्य 45 नूतनसदस्याः।

परिवार-समाजयोः संस्कृतसंवादस्य संवर्धनाय संकल्पः।

समापनसमये संस्कृतभारती-रूडकी-जनपदेन “गीता-शिक्षण-केंद्रस्य” स्थापना-घोषणा कृता। अस्य समन्वयकर्त्री डॉ. कल्पना कौशिकवर्या गीता-शिक्षण-प्रमुखा भविष्यति। अस्मिन् केन्द्रे 108 सदस्याः सक्रियतया भागं ग्रहीष्यन्ति। “संस्कृतभारती-रूडकी-जनपदस्य एषः प्रयासः राष्ट्रीयपुनरुत्थानस्य दिशि सार्थकं पदमिति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button