विमानविलम्बे सति शिवमोग्गाविमानपत्तने सहसा प्रावहत्संस्कृतवाग्धारा ॥

कर्णाटकराज्यस्य शिवमोग्गाविमानपत्तने २०२५ तमे वर्षे जुलैमासस्य अष्टाविंशे दिनाङ्के एकम् अपूर्वं नयनोत्सवकरं च दृश्यं समदृश्यत । बैङ्गलूरुं प्रति गन्तुकानां यात्रिकाणां विमानविलम्बेन यदा प्रतीक्षायाः क्लेशो वर्धमान आसीत्तदैव ते समयस्य सदुपयोगं कुर्वन्तः संस्कृतसम्भाषणे रता अभवन् ।

इदं संस्कृतसत्रम् उत्तराखण्डसंस्कृत-अकादम्याः शोधाधिकारिणो विदुषो गुरुरानीहरीशस्य नेतृत्वे प्रारब्धम् । तेन विमानपत्तने एव स्थितैः सर्वैर्यात्रिकैः सह अतीव सरसया शैल्या सम्भाषणस्य वातावरणं रचितम् । यात्रिकाणां मुखेषु खेदस्य स्थाने कौतुकं व्यराजत ।
अहो कियत् सुलभम् । सर्वे यात्रिकाः केवलमेकवारं श्रुत्वैव स्वनाम ग्रामं च संस्कृतेन वक्तुं समर्था अभवन् । संस्कृतं न केवलं क्लिष्टानां शास्त्राणां भाषा अपितु दैनन्दिनव्यवहारस्यापि सुलभा वागस्तीति ते साक्षादन्वभवन् । अस्माकं जिह्वाग्रे देववाणी कियत् सहजमागच्छतीति विचार्य सर्वेषामाश्चर्यस्य पारो नासीत् ।
ज्ञातव्यमस्ति यदेतत् शिष्टमण्डलं कर्णाटकस्य प्रसिद्धस्य मुत्तुरुसंस्कृतग्रामस्य विकासप्रतिरूपम् अध्येतुम् आगतमासीत् यतः उत्तराखण्डराज्येऽपि तादृशानां संस्कृतग्रामाणां विकासाय योजना प्रचलति । तदानीमेव विमानस्य विलम्बेन अयं सुवर्णयोगः समुत्पन्नः । संस्कृतनिदेशकस्य विदुषो भारद्वाजआनन्दस्य मार्गदर्शनेनैव गुरुरानीमहोदयेन अयमभिनवः प्रयासः कृतः ।
अथ किम् । यः कालः वृथा कलहेन वा चिन्तया वा गच्छेत् स एव कालः संस्कृतवाण्याः पीयूषधारया सिञ्चितः सफलोऽभवत् । अहो एषानुभूतिः । विमानपत्तनेऽधीतः संस्कृतस्य प्राथमिकः पाठोऽयं अस्माभिर्जीवने न विस्मरिष्यते इति यात्रिकाः सोल्लासमकथयन् । शिवमोग्गानगरे घटितया घटनयाऽनया साधु सिद्धं यत् सुरभारती शास्त्रमन्दिरेभ्यो निर्गत्य जनजीवने नदीव प्रवहति ॥







