उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

आचार्यप्रफुल्लचन्दरायस्य स्मृतौ विज्ञानप्रश्नोत्तरप्रतियोगिता आयोजिता

कण्वनगरीकोटद्वारे जानकीनगरे स्थिते “रितेशशर्मासरस्वती- विद्यामन्दिर-इण्टर-कालेज” इत्यत्र भारतीयरसायनशास्त्रस्य जनकस्य आचार्यप्रफुल्लचन्दरायस्य स्मृतौ युवाविज्ञानसप्ताहस्य चतुर्थे दिने विज्ञानप्रश्नोत्तरप्रतियोगिता आयोजिता अभवत् विद्याभारत्या: योजनानुसारेण आचार्यप्रफुल्लचन्दरायस्य स्मृतौ आयोजनं संजातं । कार्यक्रमस्य शुभारम्भ: विद्यालयस्य प्रधानाचार्य: मनोजकुकरेती उपप्रधानाचार्य: अनिलकोटनाला संयुक्तरूपेण कृतवान् । विज्ञानविभागप्रमुखः राहुलभाटिया अवदत् यत् अस्मिन् दिने विज्ञानं जीवविज्ञानं रसायनशास्त्रं भौतिकशास्त्रं च इति त्रयः विषयाः आधारिताः प्रश्नोत्तरप्रतियोगितायां छात्राः समूहरूपेण भागं गृहीतवन्तः। अस्यां स्पर्धायां कनिष्ठवर्गस्य ०८ समूहाः वरिष्ठवर्गस्य ०७ समूहाः च भागं गृहीतवन्तः । कनिष्ठवर्गे अत्र पीयूष-आदेश-सिमरन-समूहः प्रथमः, अनमोल-मधुसूदन-रुद्रांश-समूहः द्वितीयः, सक्षम-कुणाल-आराध्या-समूहः तृतीयः आसन् । वरिष्ठवर्गे अत्र अनुष्का, वंशिका, अंशु: इत्येतेषां समूहः प्रथमः, व्योम:, दीप्तिः, अनुराग: जुयालः च इति समूहः द्वितीयः, विभूतिः, सोनाक्षी, निहारिका च इति समूहः तृतीयः आसन् । संगीता कुकशाल:, संगीतारावत:, चन्द्रप्रकाश:, राहुलभाटिया अत्र निर्णायका: आसन्। अवसरेस्मिन् सहायकविज्ञानप्रमुख: संगीता रावत:, संचारप्रभारी शिवरामबडोला, राजनकुमार:, देवेन्द्रकुमार: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button