संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

अटलोत्कृष्टराजकीयवरिष्ठ-माध्यमिकविद्यालयेन इन्द्रमणिबडोनी संस्मृत:

मतदाताजागरूकता-अभियाने मार्ग-सुरक्षा-सप्ताह: समाचरितोभवत्

कोटद्वारं। २४-१२-२०२३ दिनाङ्के कण्वघाटी-नगरस्य अटल-उत्कृष्ट-अन्तर्-विद्यालय-कण्वघाटीद्वारा इन्द्रमणि-बडोनी-महोदयस्य जन्मदिवसे तेषां चित्रस्य अनावरणं कृत्वा स्मरणं कृतम् । स्वर्गीयं इन्द्रमणिबडोनीं जन्मदिवसे श्रद्धांजलिं अर्पयन् प्रधानाचार्य: रमाकान्तकुकरेती तस्य कार्यस्य एवं व्यक्तित्वे उक्तवान् यत् तेषां त्याग: तथा सक्रियसहयोगे उत्तराखण्डराज्यान्दोलने महती भूमिका आसीत्, येन गौरवान्वितोयम् उत्तराखण्डप्रदेश: धन्यमनुभवति।आन्दोलनस्य आरम्भकर्ता स्वर्गीयः बडोनी सर्वेषां कृते आदर्शः अस्ति।

तस्य सम्पूर्णं जीवनं महासंघर्षैः परिपूर्णम् आसीत्, उत्तराखण्डराज्यस्य स्वभावं प्रति तस्य चिन्तनं स्पष्टं च आसीत्, अस्मिन् अवसरे रा.इ.का. कण्वघाटी इत्यस्य स्वयंसेवकाः अपि भागं गृहीतवन्तः। तदतिरिक्तं मतदाताजागरूकता-अभियानस्य, मार्ग-सुरक्षा-सप्ताहस्य च अन्तर्गतं जागरूकता-सभा अपि कृता, एषा सभा विद्यालय-परिसरतः मिलन-चौक-पर्यन्तं गता।सर्वजनानाम् अवधानम् सुरक्षायाम् कृतं। स्वयंसेवकानां कृते जयघोषा: लिखिता: प्लेकार्ड् अपि अत्र आसन् । कार्यक्रमस्य सञ्चालनं राकेशमोहनध्यानीद्वारा कृतम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button