संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

उत्तराखण्डस्य भंगलाग्रामस्य ज्योतिप्रसादगैरोला संस्कृतशोधोपाधिना संस्कृतक्षेत्रे गौरवम् आनयत्

✓✓महामहिमराष्ट्रपति: श्रीमती द्रोपदी मुर्मू महाभागा अपि च केन्द्रीयमंत्री माननीयश्रीधर्मेन्द्रप्रधान: संस्कृतविद्वांश: च दीक्षान्तसमारोहे दत्तवन्त: शोधोपाधिं ।। ✓✓ज्योतिप्रसादगैरोला वास्तुशास्त्रे "पुराणेष्वागतदेवदेवी- विग्रहाणं वास्तुशास्त्रदृष्टया परिशीलनम्" इत्यस्मिन् शोधसम्पन्ने 'विद्यावाचस्पतिं(पी०एच०डी०) उपाधिं प्राप्तवान्।।

टिहरीगढ़वाल:। उत्तराखण्डस्य भूमौ नैका: प्रतिभाशालिन: जना: अभवन् । यै: प्रदेशोऽयम् गौरवान्वितोऽभवत्। संस्कृतसेवानिष्ठायाश्रृङ्खलायाम् सम्प्रति टिहरीजनपदस्य ‘नरेन्द्रनगरोपजनपदस्य भांगलाग्रामनिवासी श्रीज्वालाप्रसादगैरोलामहाभागानां पुत्र: ज्योतिप्रसादगैरोला स्वकीयशोधप्रबन्धेन उत्तराखण्डस्य गौरवं वर्धितवान् ।

देहल्या:श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृत-विश्वविद्यालये आयोजिते प्रथमदीक्षांतसमारोहे मुख्यातिथित्वरूपेण महामहिमराष्ट्रपति: श्रीमती द्रोपदी मुर्मू महाभागा अपि च विशिष्टातिथिरूपेण केन्द्रीयमंत्री माननीयश्रीधर्मेन्द्रप्रधानमहाभागानां गरिमामय्युपस्थितौ श्रीलालबहादुरशास्त्रीराष्ट्रीय-संस्कृतविश्वविद्यालयस्य ( केन्द्रीयविश्वविद्यालय:) कुलपति: प्रो० मुरलीमनोहरपाठक:, देहल्या: केन्द्रीयसंस्कृतविश्वविद्यालयस्यस्य कुलपति: प्रो० श्रीनिवास: वरखेडी एवं कुलसचिव: तथा च प्रेमकुमारशर्मा महोदय: ज्योतिप्रसादगैरोलस्य कृते वास्तुशास्त्रे “पुराणेष्वागतदेवदेवी- विग्रहाणं वास्तुशास्त्रदृष्टया परिशीलनम्” इत्यस्मिन् शोधसम्पन्ने ‘विद्यावाचस्पतिं(पी०एच०डी०) उपाधिं प्रमाणपत्रञ्च सम्मानेन प्रदत्तवन्त: ।ज्योतिप्रसादगैरोला प्रो० अशोकथपलियालमहाभागानाम् निर्देशने शोधकार्यम् असाधयत्।

ग्रामीणकृषककुले जन्मप्राप्य: ज्योतिप्रसादगैरोलामहोदयानाम् समक्षे नैका: आर्थिक्या: समस्या: अपि आसन्, २०२३ वर्षस्य अगस्तमासे स्वकीया: मातु: श्रीमत्या: स्व.श्रीमतीशाकम्भरीदेव्या: देहान्ते सत्यपि तै: इयमोपलब्धि: सम्प्राप्त:। ज्योतिप्रसादमहोदयानाम् इयमोपलब्धि: नवयुवकानां कृतेऽपि आदर्शोदाहरणरूपेण अस्ति नूनमेव ।

श्री ज्योतिप्रसादमहोदयैः शास्त्र्युपाधि: हरिद्वारात्, आचार्योपाधि: सम्पूर्णानन्दविश्वविद्यालयात् तथा च एम.फिल. उपाधि: श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्वविद्यालयत: कृतम्। ज्योतिप्रसादमहोदयानाम् अस्यामुपलब्धौ शिक्षकै:,‌ मित्रै:, सहयोगिभिश्च बहवा: शुभाशया: आगता:। सर्वत्र परिचिता: प्रसन्ना: सन्ति। संस्कृतजगति अयमुल्लास: सर्वत्र प्रशंसनीयोस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button