संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

संस्कृतम् अस्माकं देशस्य गौरवशाली भाषा- डा.अरुणिमा

द्विदिवसीयसंस्कृतप्रतियोगितानां पुरस्कारै: सह समापनम्

कोटद्वारं। खण्डस्तरीयसंस्कृतप्रतियोगितायाः द्वितीयदिने कनिष्ठवर्गे संस्कृतनाट्यस्य, आशुभाषणस्य वादविवादस्य, छन्दस्य, समूहगानस्य, समूहनृत्यस्य च प्रतियोगिताः आयोजिताः आसन्।

द्वितीयदिवसे समापनावसरे सरस्वतीविद्यामन्दिरस्य प्रधानाचार्य: मनोजकुकरेती विशेषातिथिरूपेण एवं रमाकांतकुकरेती जनपदसहसंयोजक: एवं प्रधानाचार्य: रा.इ.का.कण्वघाटीत: अतिविशिष्टातिथिरूपेण च डॉ. अरुणिमा मिश्रा संस्कृतविभागत: असि.प्रो.राजकीयमहाविद्यालयकोटद्वारत: मुख्यातिथिरूपेण उपस्थिता: आसन् । अस्मिन् अवसरे डा.अरुणिमाद्वारा कथितं यत् संस्कृतं सम्भाषणकाले अतीव सरलं भवति किन्तु पुस्तकस्य अध्ययने कठिनं प्रतीयते। संस्कृतम् अस्माकं देशस्य गौरवशाली भाषा अस्ति । संस्कृतप्रतियोगिताः छात्राणां मध्ये संस्कृतं प्रति रुचिं जनयन्ति। अतः संस्कृत-अकादम्याः एषः प्रयासः प्रशंसनीयः अस्ति।

राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारस्य सभागारे दीपप्रज्ज्वालनेन कनिष्ठवर्गप्रतियोगितानां उद्घाटनं सञ्जातं। अस्य अन्तर्गतं प्रथमा समूहगानप्रतियोगिता आयोजिता अभवत् । यस्मिन् रा.क.इ.का.कलालघाटी प्रथमं, रा.क.इ.का.
दुगड्डा द्वितीयः तथा डी.ए.वी. सार्वजनिकविद्यालयः तृतीयस्थानं प्राप्तवन्त: । परमार्थवैदिकगुरुकुलं श्लोकोच्चारणे प्रथमं रा.इ.का. लालपानी द्वितीयं, एवं रा.क.उ.मा.विशिवराजपुरं तृतीयं, रा.इ.का.कोटद्वारं नाटकप्रतियोगितायां सर्वोच्चप्रदर्शनेन प्रथम: अभूत्।

कनिष्ठवर्गस्य आशुभाषणप्रतियोगितायां अदितिरावत: (कान्वेण्ट् कोटद्वारत:) प्रथमं, अंकित: (परमार्थवैदिकगुरुकुलकण्वाश्रमत: ) द्वितीयं तथा केशवचतुर्वेदी ( जानकीनगरं ) तृतीयं , वादविवादप्रतियोगितायां डी.ए.वी. इत्यत: प्रथमं रा.इ.का.कोटद्वारं द्वितीयं एवं स.वि.म.जानकीनगरं तृतीयं आसन्

खण्डस्तरस्य संस्कृतछात्रप्रतियोगितायां दुगड्डाविकासखण्डे आयोजितायां समूहनृत्यप्रतियोगितायां रा.इ.का.कोटद्वारं प्रथमं, रा.क.इ.का.दुगड्डा द्वितीयः रा.इ.का. कण्वघाटी तृतीयस्थानं प्राप्तवान्।

उत्तराखण्डसंस्कृत-अकादमीहरिद्वारस्य पौडीजनपदस्य दुगड्डाविखकासखण्डस्य सफलप्रतियोगितायां स्थलसंयोजक:/प्रधानाचार्य: मुकेशरावत:, डॉ. पदमेशबुडाकोटी, डॉ. अरुणिमा मिश्रा (संस्कृतविभाग: राजकीयमहाविद्यालयकोटद्वारत:) एवं जनपदसहसंयोजक: रमाकान्तकुकरेती, श्रीमती शोभा तिवारी, मनोजकुकरेती , किशोर बिडालिया, अशोककाला,मनमोहनसिंहचौहान:, डॉ. मंजूकपरवाण: प्रतिभागिभ्य: पुरस्कारं एवञ्च प्रमाणपत्रं प्रदाय सम्मानितवन्त: ।

अवसरेस्मिन् सुश्री बीनागौड:, सिद्धार्थनैथानी, अरविन्दभट्ट:, मनमोहननौटियाल: कान्तिबल्लभशास्त्री, शशिभूषण अमोली, श्रीमती सुनीता शाह: आदय: दलप्रभारिण: उपस्थिता: आसन् | सञ्चालनं खण्डसंयोजक: कुलदीपमैन्दोला, शोभा तिवारी च संयुक्तरूपेण सम्पादितवन्तौ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button