संस्कृतसाहित्यम् अस्माकं देशस्य समृद्धं धरोहरं प्रतिबिम्बयति- “श्रीदिवाकरबेबनी”
संस्कृतभाषायाः प्रचारार्थं बृहत्प्रमाणेन कार्यं करणीयं -'डा.अनुरागशर्मा' ।। ।। राजकीयवरिष्ठमाध्यमिकविद्यालय: दुगड्डा नृत्ये प्रथम:
कोटद्वार। रा.इ.का.कोटद्वारस्य सभागारे मुख्यातिथि: राजकीयमहाविद्यालयजयहरीखालत: सहायकप्राध्यापक: डॉ. दिवाकरबेबनी दीपं प्रज्ज्वाल्य प्रतियोगितानां शुभारंभं कृतवन्त: । अस्मिन् अवसरे सः अवदत् यत् देववाणी संस्कृतं भारतीयभाषाणां जननी अस्ति। वेदपुराणोपनिषद्सहितं सम्पूर्णं संस्कृतसाहित्यम् अस्माकं देशस्य समृद्धं धरोहरं प्रतिबिम्बयति। सः अवदत् यत् सामान्यजनाः संस्कृतसाहित्यस्य गहनतया अध्ययनं कुर्वन्तु, नूतना सन्तति: संस्कृतस्य आत्मसाक्षात्कारं कुर्वन्तु।
उत्तराखण्डसंस्कृत-अकादम्या: तत्वाधाने पौडीजनपदस्य दुगड्डाविकासखण्डस्य अन्तर्गतं राजकीयवरिष्ठमहाविद्यालये संस्कृतछात्रप्रतियोगितानां आयोजनं कृतम् । प्रतियोगितायाः समूहनृत्यस्य वरिष्ठवर्गे राजकीयबालिकावरिष्ठमाध्यमिकविद्यालय: दुगड्डा प्रथमं, राजकीयबालिकावरिष्ठमाध्यमिकविद्यालय: कलालघाटी द्वितीयं स्थानं, एस.वी.एम.जानकीनगरं तृतीयस्थानं प्राप्तम्।
*संस्कृतभाषायाः प्रचारार्थं बृहत्प्रमाणेन कार्यं करणीयं
-‘डा.अनुरागशर्मा’*
विशेषातिथिः राजकीयमहाविद्यालयकण्वघाटीत: सहायकप्राध्यापक: (वाणिज्यमविभागत:) डॉ. अनुरागशर्मा अवदत् यत् संस्कृतभाषायाः प्रचारार्थं बृहत्प्रमाणेन कार्यं करणीयम् इति। संस्कृतं रोजगारेन सह सम्बद्धं कर्तुं अपि सः आह्वानं कृतवान् ।
विशेषातिथिरूपेण शिक्षकाभिभावकसंघत: उत्तराखण्डसंस्कृत-अकादम्याः उपक्रमस्य प्रशंसाम् कुर्वन् अध्यक्षः महेन्द्र-अग्रवाल: आशां प्रकटितवान् यत् संस्कृतप्रतियोगितायाः माध्यमेन छात्राणां संस्कृतं शिक्षितुं नित्यप्रयोगे च स्वीकर्तुं प्रवृत्तिः वर्धते इति।
कार्यक्रमं सम्बोधयन् कोटद्वारस्य प्रधानाचार्यः मुकेशरावतः अध्यक्षताम् उक्तवान् यत् संस्कृतं देशस्य तादात्म्यं भारतीयज्ञानपरम्परा च विद्यते । खण्डसंयोजकेन कुलदीपमैन्दोलाद्वारा प्रतियोगितानां संचालनं सञ्जायते।
अस्मिन् अवसरे विद्यामन्दिरजानकीनगरत: वरिष्ठवर्गे समूहगीतप्रदर्शने प्रथमं, राजकीयस्नातकोत्तरमहाविद्यालय: कोटद्वारं द्वितीयं, राजकीयबालिकावरिष्ठमाध्यमिकविद्यालय: कलालघाटी तृतीयस्थानं प्राप्तवती।
अवसरेत्र जिलासमन्वयक: रमाकांत कुकरेती, मनोज कुकरेती, आशीषखर्कवाल:, डॉ. पदमेशबुडाकोटी, मनमोहनसिंहचौहान: कांतिवल्लभशास्त्री, किशोरविडालिया, शोभा तिवारी अशोककाला, देवेन्द्ररावत:, सीतांशखुगशाल:, शशिभूषण: अमोली, श्रीमती पूनमपांथरी , डॉ. मंजूकपरवाण:, गणेशकेष्टवाल: एवञ्च विभिन्नविद्यालयानां मार्गदर्शका: शिक्षका:शिक्षिका: उपस्थिता: आसन् 17 त: अधिका: विद्यालया: 300 दर्शकै: मध्ये प्रतियोगितासु प्रतिभागं कृतवन्त: ।