संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा-विषये अल्मोड़ाजनपदे व्याख्यानं

उत्तराखण्डस्य भूमिः संस्कृतभूमि: संस्कृतभूमि: - "डा.प्रकाशजांगी"

अल्मोड़ा । उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा (३१ अगस्त २०२३त: 29-09-23पर्यन्तं) संस्कृतमासस्य आयोजनं भवति। उत्तरखण्डस्य १३ जिल्हेषु “उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा” इत्यस्मिन् विषये व्याख्यानमाला आयोजिता अस्ति यस्य अन्तर्गतं २४ दिनाङ्के अल्मोडाजनपदे व्याख्यानमाला आयोज्यते सितम्बर 2023 अपराह्न 03:00 वादनतः। यस्य मुख्यविषयः *उत्तराखण्डस्य संस्कृत नाट्यपरम्परा* इति वर्तते ।

उक्तकार्यक्रमस्य अध्यक्षतायां प्राचार्य: प्रो० ललनप्रसादवर्मा, राजकीयमहाविद्यालयशीतालाखेत-अल्मोडात: , मुख्यातिथिरूपेण रानीखेतविधानसभात: माननीयविधायक: डॉ. प्रमोदनैनवाल:, विशेषातिथिरूपेण कुमाऊँविश्वविद्यालयनैनीतालस्य संस्कृतविभागाध्यक्ष: प्रो.जयतिवारी, सारस्वतातिथिरूपेण हेमवतीनंदनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयश्रीनगरस्य संस्कृतविभागाध्यक्ष: डॉ. आशुतोषगुप्ता च आकाशवाणीनवीदिल्लीतः संस्कृतस्य मुख्यसम्पादकः डॉ. बलदेवानन्दसागरः, मुख्यवक्तृरूपेण कार्यक्रमे उपस्थिता: भविष्यन्ति, ये उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः विषये स्वविचारं प्रकटयिष्यन्ति। सूचनां दत्त्वा कार्यक्रमस्य जिलासंयोजकः , डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन उक्तं यत् उत्तराखण्डः आरम्भादेव संस्कृतनाट्यशास्त्रे निरतः अस्ति। उत्तराखण्डस्य भूमिः संस्कृतभूमि: अस्ति । अत्र च वेदपुराणमहाभारतस्य रचना अभवत्। उत्तरकाशीनगरे स्थितं कविल्थं नाम स्थानं विद्वांसः मन्यन्ते महाकविकालिदासस्य जन्मभूमिः विविधाः संस्कृतविद्भिः च अत्र काले काले लेखनं कृतम् अस्ति तथा च अत्र विविधाः संस्कृतग्रन्थाः लिखिताः सन्ति। उत्तराखण्डस्य साहित्यकाराणाम् नाटकानि अपि काले काले प्राप्यन्ते येषु व्याख्यानमाला आयोज्यते। राज्यसमन्वयकः डॉ. हरीशचन्द्रगुरुराणी उक्तवान् यत् उत्तराखण्डसंस्कृताकादम्याः उद्देश्यं संस्कृतभाषां जनसामान्यं प्रति सुलभं कर्तुं जनान् संस्कृतभाषाविषये जागरूकं कर्तुं च अस्ति।जिलासहसंयोजकरूपेण श्रीजगदीशचन्द्रजोशी अपि कार्यक्रमे उपस्थित: भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button