संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

उत्तराखण्ड-संस्कृतविश्वविद्यालये संस्कृतसंवादशिबिरम् आरब्धम्।

संस्कृतम् अस्माकं व्यावहारिकी मातृभाषा -डा."सुमनप्रसादभट्टः"

वार्ताहर:-कमलगहतोड़ीहरिद्वारं।
उत्तराखण्डसंस्कृतविश्वविद्यालयस्य संस्कृतभारतीउत्तरञ्चालस्य च आश्रये १० दिवसीयं संस्कृतसंवादशिबिरं प्रारब्धम्। अस्य शुभारम्भ: विगाध्यक्षेन डाॅ अरविन्दनारायणमिश्रमहोदयेन डाॅ सुमनप्रसादभट्टेन च विहितम् । अस्मिन् अवसरे वदन् डॉ. सुमनप्रसादभट्टः अवदत् यत् संस्कृतं अस्माकं व्यावहारिकी मातृभाषा च अस्ति। विभागाध्यक्षः डॉ. अरविन्दनारायणमिश्रः संस्कृतभाषायाः महत्त्वं व्याख्याय छात्रान् संस्कृतशिक्षणाय प्रेरितवान्।
शिविरस्यास्य शिक्षणकार्यं कमलगहतोडी़ ब्रजेशजोशी च सम्पादयिष्यत: । कार्यक्रमं विश्वविद्यालयस्य छात्रेण नवीनकाण्डपालेन सञ्चालितम्। कार्यक्रमेस्मिन् डाॅ विन्दुमती द्विवेदी , कमलगहतोडी़, ब्रजेशजोशी इत्यादय: नैका: छात्राध्यापका: छात्राध्यापिकाश्च समुपस्थिता: समभवन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button