संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

संस्कृताकादमीद्वारा पौड़ीजनपदे पाबौपोखडाविकासखण्डे संस्कृतप्रतियोगिता

कोटद्वार। उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते । कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे ११ कक्षातः स्नातकोत्तरस्तरपर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति। संस्कृतनाटकं, संस्कृतनृत्यं, संस्कृतसमूहवाक्पटुता, संस्कृतविवादः, श्लोकोच्चारण़प्रतियोगिता उभयत्र वर्गेषु आयोज्यन्ते। पौडीजनपदस्य पाबौविकासखण्डे उत्तराखण्डसंस्कृत-अकादमीद्वारा २६-२७ सितम्बर्-दिनाङ्के खण्डस्तरीय-संस्कृत-छात्र-प्रतियोगिता अपि आयोजिता अस्ति । पाबौविकासखण्डस्य खण्डशिक्षाधिकारी श्री अमितचौहानस्य मार्गदर्शने खण्डसंयोजक: श्रीकांतदुदपुडी प्रतियोगितां सम्पादयिष्यति। मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: आदिष्टवान् यत् प्रतियोगितासु सर्वविद्यालया: स्वसहभागितां उत्साहपूर्वकं सुनिश्चितं कुर्यात् च प्रथमद्वितीयतृतीयस्थानविजेतृभ्यः अकादमीद्वारा निर्धारितरूपेण साक्षात्पुरस्कारः प्रदत्तः भविष्यति।

सहैव उत्तराखण्डस्य पौडीजनपदस्य पोखडाविकासखण्डे अपि संस्कृतप्रतियोगिता: समायोज्यन्ते। राज्यस्य द्वितीयां राजभाषां देववाणीं संस्कृतं जनानां कृते उपलब्धं कर्तुं उत्तराखण्ड-संस्कृत-अकादमीसम्पूर्णे राज्ये खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरस्य च निरन्तरसंस्कृतछात्रप्रतियोगितानां आयोजनं कुर्वती अस्ति। तदनुश्रित्य पोखडाविकासखण्डस्य मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: सर्वविद्यालयेभ्य: उक्तप्रतियोगितासु उत्साहेन सहभागितां सुनिश्चितं कर्तुम् आदेशं दत्तवान्। विकासखण्डपोखडा संयोजक: आचार्य: सुनीलकुमारधस्माना प्रवक्ता जनतावरिष्ठमाध्यमिक- विद्यालयदेवराजखालत: उक्तवान् २६,२७ सितम्बर् दिनाङ्के पोखडाखण्डस्तरीयप्रतियोगितानां आयोजनं भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button