संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

उत्तराखण्डस्य संस्कृतपरम्परायां राजकीयस्नातकोत्तर-महाविद्यालयकोटद्वारे संगोष्ठी ।

संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डस्य शास्त्रपरम्परायाः आधारेण उत्तराखण्डराज्यस्य सर्वेषु जनपदेषु उत्तराखण्डसंस्कृताकादमीद्वारा संगोष्ठी आयोज्यते। अस्मिन् अवसरे पौडीगढ़वालजनपदे “उत्तराखण्डस्य संस्कृतपरम्पराविषये” अन्तर्जालीयसंगोष्ठी राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारे संजायते । गूगलमीटमाध्यमेन जनपदीया संस्कृतपरम्परा संगोष्ठी 22-09-23 दिनांके 3.00वादने समारभ्यते।

डा.रोशनीद्वारा कथितं यत् एषा संगोष्ठी संस्कृतहितैषिणां कृते अत्युपयुक्ता वर्तते । उत्तराखण्डं देवभूमि: वर्तते देवानां भाषा एव संस्कृतम् अत: अत्र संस्कृतपरम्परा अद्यापि अस्ति । अकादम्या: एष: प्रयास: श्लाघनीय: वर्तते। अस्यां संगोष्ठ्यां मुख्यवक्ता प्रसिद्धः प्रो. राजेश्वरप्रसादमिश्र: कुरुक्षेत्रविश्वविद्यालयकुरुक्षेत्रत: , विशिष्टातिथि: विख्यात: विद्वान् प्रो. निरंजनमिश्र: श्री भगवानदाससंस्कृतमहाविद्यालयहरिद्वारत:,
मुख्यातिथि: प्रो.सी. डी. सूंठा निदेशक: उच्चशिक्षा-उत्तराखण्डत: एवं कार्यक्रमाध्यक्षा प्राचार्या प्रो. जानकी पंवार: डॉ. पी. द. ब. रा. स्ना.म.वि.कोटद्वारत: संगोष्ठ्या: मार्गदर्शनं विधास्यन्ति। डॉ.पी.द.ब.रा.स्ना. म.वि.कोटद्वारस्य संस्कृतविभागस्य
डॉ. रोशनी असवालः जनपदसंयोजिका, राजनीतिशास्त्रस्य डॉ. संजीवकुमारः सहायकप्राध्यापकः डॉ. पी. द. ब. रा. स्ना. म.वि.कोटद्वारत: सहसंयोजक:च स्त:। अस्यां संगोष्ठ्यां भवतां सर्वेषां आदरणीयानां विदुषां गौरवपूर्णा उपस्थितिः समादरणीया: सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button