संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

27 दिनाङ्के रुद्रप्रयागे छन्दशास्त्रपरम्पराविषये भविष्यति संगोष्ठी ।

संस्कृतविभागप्रभारी डॉ. भारती संचालयिष्यति संगोष्ठीं

रुद्रप्रयाग। संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डस्य शास्त्रपरम्परायाः आधारेण उत्तराखण्डस्य प्रत्येकस्मिन् जनपदे उत्तराखण्ड- संस्कृताकादमीद्वारा संगोष्ठी आयोज्यते। अस्मिन् अवसरे रुद्रप्रयागजनपदे अन्तर्जालीयसंगोष्ठी आयोजिता भविष्यति। उत्तराखण्डसंस्कृत- अकादमी तथा राजकीयमहाविद्यालयजखोली (रुद्रप्रयाग:) अनयो: संयुक्ताश्रये रुद्रप्रयागजनपदे संगोष्ठ्या: आयोजनं भविष्यति। संगोष्ठ्या: विषय : “उत्तराखण्डस्य छन्दशास्त्रपरम्परा” अयं विषयः विद्वद्भिः चर्चिता भविष्यति। तथा च उत्तराखण्डस्य काव्यपरम्परां सामान्यजनपर्यन्तं नेतुम् अथकप्रयत्नः क्रियते।

जखोली-नगरस्य राजकीयमहाविद्यालयस्य प्राचार्या डॉ. (कु.) माधुरी संस्कृत-अकादमीद्वारा क्रियमाणस्य कार्यस्य प्रशंसां कुर्वन्ती एतैः प्रयत्नैः वयं स्वपरम्पराणां विषये अवगताः भवितुम् शक्नुमः इति अवदत् । रुद्रप्रयागसंगोष्ठ्याः उत्तरदायित्वं संस्कृतविभागप्रभारी डॉ. भारती निर्वहति। सहसंयोजकस्य दायित्वं हरिद्वारतः अनन्तभट्टेन निर्वह्यते। रुद्रप्रयागस्य अस्यां संगोष्ठ्यां भवतां सर्वेषां स्वागतं भविष्यति।

संस्कृतमासमहोत्सवोपलक्ष्ये श्रावणपूर्णिमातः भाद्रपदपूर्णिमापर्यन्तं प्रदेशस्य 13 जनपदेषु रुद्रप्रयागस्य जनपदस्तरीयां ई-संस्कृतसंगोष्ठ्यां उत्तराखण्डस्य छन्दशास्त्रपरम्पराविषये 27सितम्बर 2023, दिनांके बुधवासरे, अपराह्ने 3:00 वादने सर्वै: सह अतिथयः अपि सादरामन्त्रिताः सन्ति।

अवसरेत्र कार्यक्रमाध्यक्षा डा० माधुरी प्राचार्या राजकीयमहाविद्यालय: जखोली, रुद्रप्रयागत: , मुख्यातिथिः डा० प्रकाशपन्त: सहायकाचार्य: उत्तराखण्डसंस्कृतविश्वविद्यालयः हरिद्वारत:
विशिष्टातिथिः डा० लक्ष्मी भट्ट: साहित्यसम्मानप्राप्तस्वतंत्रलेखिका , मुख्यवक्ता प्रो0रामविनयसिंह: आधुनिकसंस्कृतसाहित्यकार: डी.ए.बी.पी.जी. कॉलेजदेहरादूनत: मार्गदर्शनार्थं समुपस्थिता: भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button