संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपंजाबसंस्कृत भारती

वीरहकीकतराय-आदर्श-वरिष्ठ-माध्यमिक-विद्यालये संस्कृतसम्भाषण-शिविरस्य भव्यः समारोहः अभवत्

संस्कृतं वैज्ञानिकभाषा अस्ति, एषा भारतीयानां परिचयः - " मुख्यातिथिः हरिंदरगुप्ता "

पंजाब। अद्य गतदशदिनानि यावत् संचाल्यमानसंस्कृतकक्षाया: पटियालास्थिते वीरहकीकतराय-आदर्श-वरिष्ठ-माध्यमिकविद्यालये भव्यपरिमाणेन समापनम् विद्यालयस्य प्राचार्यस्य च शिक्षकाणां सहयोगेन सफलं संजातं। विद्यालयस्य छात्रैः संस्कृते दीपमन्त्रः, सरस्वती वन्दना, स्वागतगीतं, शिविरगीत, अभिनयगीत अनुभवकथा, भंगरानृत्यं, संस्कृतगिधा, च प्रस्तुतम् ।

मुख्यातिथिः हरिंदरगुप्ता संस्कृतभाषायां छात्राणां प्रस्तुतस्य कार्यक्रमस्य प्रशंसाम् अकरोत्, संस्कृतं वैज्ञानिकभाषा अस्ति, एषा भारतीयानां परिचयः इति स: संस्कृतं पठितुं लेखितुं च प्रेरितवान्। संस्कृतभारतीयपञ्जाबप्रान्तीयपटियालासंयोजकः सर्वकार्यकन्यामहाविद्यालयस्य संस्कृतविभागस्य अध्यक्षः ऊम्मेनदीपशर्ममहोदयेन छात्राणां कृते संस्कृतविषये विस्तृता सूचना दत्ता।

कार्यक्रमाध्यक्ष: वीरहकीकातराय-आदर्शवरिष्ठ- माध्यमिकविद्यालयस्य प्रधानाध्यापिका श्रीमती सरला भटनागरमहोदया लक्षशर्ममहोदयस्य छात्राणां कृते संस्कृतशिक्षणस्य प्रयत्नस्य प्रशंसाम् अकरोत् तथा च कार्यक्रमे प्रतिभागिनां सर्वेषां छात्राणां कृते प्रशंसाम् अकरोत् तथा च अस्मिन् कार्यक्रमे अतिथिभ्यः अजय-आर्यमहोदयाय च धन्यवादं दत्तवती ।संस्कृतभारतीपञ्जाबप्रान्तस्य सचिवः, संस्कृतभारतीपटियालामण्डलस्य जिलामन्त्री च विशेषतया उपस्थितः आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button