संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

हिन्दीबालकविसम्मेलने वंशिका प्रथमस्थाने

हिन्दीदिवसावसरे सरस्वतीविद्यामन्दिरे अभवत् "बालकविसम्मेलनं"

प्रेषक:- रोहितबलोदी।कोटद्वारं। हिन्दीदिवसस्यावसरे रितेशशर्मासरस्वतीविद्यामंदिरे ( इण्टर-कॉलेज) जानकीनगरकोटद्वारे “बालकविसम्मेलनस्य” आयोजनं जातं। यत्र विद्यालये स्वरचिता कविता प्रतियोगिता आयोजिता आसीत्। कार्यक्रमस्य उद्घाटनं मुख्यातिथिसहविभागसमन्वयकः संस्कृतभारती पौड़ी सहविभागसंयोजक: कुलदीपमैन्दोला, कार्यक्रमनिर्णायक: हरीशचन्द्रनौटियाल:, हरीशरावत:, प्राचार्य: मनोजकुकरेती उपाध्यक्षा मीनाक्षी शर्मा, कुञ्जबिहारीभट्ट: संयुक्तरूपेण दीपं प्रज्ज्वालितवन्तः, मातृसरस्वत्या: सम्मुखे पुष्पाणि च अर्पितवन्तः ।

सर्वप्रथमं हिन्दीभाषायाः महत्त्वं व्याख्याय कुञ्जबिहारीभट्टवर्येण उक्तं यत् हिन्दी एव भाषा अस्ति या अनक्षरत: आरभ्य ज्ञानीतः ज्ञानिनं यावत् भवति। अस्माकं मातृभाषायाः प्रचारार्थं यथाशक्ति: प्रयत्नः करणीयः । कोटद्वारनगरस्य ०९ विद्यालयाः अद्यतनप्रतियोगितायां भागं गृहीतवन्तः। यत्र श्री गुरुरामरायपब्लिकस्कूल इत्यत: भगिनी वंशिका प्रथमस्थानं प्राप्तवती। तत्रैव तस्या: विद्यालयादेव भगिनी रिद्धि: द्वितीयस्थानं प्राप्तवती तथा डीएवीपब्लिकस्कूल इत्यत: अभिनव डबराल: तृतीयस्थानं प्राप्तवन्त: । प्राचार्य: मनोजकुकरेती आगामीकार्यक्रमविषये अपि विज्ञाय प्रतिभागिभ्य: तथा विजेतृप्रतिभागिभ्य: शुभकामनां प्रेषितवान् । कार्यक्रमस्य संचालनं रोहित बलोदी कृतमवान। अवसरेस्मिन् सहभागीविद्यालयस्य कार्यक्रमसंयोजिका नन्दिनी नैथानी, उपप्रधानाचार्य: अनिलकोटनाला, राजनकुमारशर्मा, गौरवबुडाकोटी एवं मार्गदर्शका: शिक्षका: उपस्थिता: आसन्।

अवसरेत्र प्रधानाचार्य: मनोजकुकरेती अवदत् यत् उत्तराखण्डेपि बहवः कवयः प्रसिद्धाः अभवन्, तेषां परम्परायां अस्माकं छात्राः स्वलिखितकाव्यैः अग्रे गच्छेयुः। पूर्वकविनां निधिरूपेण नवीनछात्रैः निर्वाहयितुम् भविष्यति। उपाध्यक्षा मीनाक्षी शर्मा इत्यनया उक्तं यत् अद्यत्वे एषा महती विडम्बना अस्ति या नूतना सन्तति: धरोहर इत्यादीन् शब्दान् केवलं सम्पत्तिरूपेण वा भूमिरूपेण वा अवगच्छति, यदा तु भाषा, संस्कृतिः, शिक्षा, सभ्यता विश्वासाः, सम्मानः च अस्माकं पूर्वजैः प्रदत्तं धरोहरम् अस्ति। मुख्यातिथिरूपेण कुलदीपमैन्दोला अवदत् यत् प्रत्येकं अक्षरं ज्ञानं ददाति तथा च अक्षरेभ्य: वयं नूतनानां सृष्टीनां निर्माणं आरभामः, अतः जीवने किमपि वा अन्यं वा लिखितव्यम्, कवे: लेखनमेव परिचयः। सः आङ्ग्लसभ्यतायाः आरोपणविषये स्वस्य कवितां हिन्दीभाषायां प्रस्तुतवान्, यस्याः बहु प्रशंसनं दर्शकै: कृतं ।।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button