संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

बालकबालिकासु रिखणीखालस्य हस्तकन्दुके सर्वोत्कृष्टप्रदर्शनं। जनपदीययोगस्पर्धायाम् प्रथमस्थाने सम्प्राप्त: राजकीयवरिष्ठमाध्यमिक-विद्यालयकाण्डाखाल:

कोटद्वार। पौडीजनपदे शरद्कालीनक्रीडाप्रतियोगितानां 2023
विद्यालयशिक्षाविभागस्य अन्तर्गतं कोटद्वारस्य सर्वकारीक्रीडाक्रीडाङ्गणे सोमवासरे १३ तमवर्षस्य क्रीडायाः उद्घाटनं सोमवासरे अभवत् । यस्मिन् वॉलीबॉल, हॉकी, जूडो, योग: च मुख्यतया शरद्-कालीन्क्रीडासु समाविष्टाः सन्ति। सोमवासरे हॉकी-वॉलीबॉल-क्रीडा प्रेक्षकाणां आकर्षणकेन्द्रम् एव अभवत्, मंगलवासरे अपि बालकबालिकानां वॉलीबॉल-क्रीडायाः परिणामाः प्रकाशिताः अभवन् , यस्मिन् १४ आयुवर्गे बालिकानां वर्गे एकेश्वरविजयः प्रथमः, रिखणीखालः द्वितीयः च १७आयुवर्गे बालिकासु रिखणीखालः प्रथमः नैनीडाण्डा द्वितीयः आस्ताम् । एतेन सह १४ आयुवर्गे बालकानां वॉलीबॉलक्रीडायां रिखणीखालः प्रथमः, नैनीडाण्डा द्वितीयः आस्ताम् । जनपदसमन्वयक: धीरेन्द्रसिंहबिष्ट: एवं क्रीडासमन्वयक: विनोदपन्त: समस्तक्रीडानां सन्निरीक्षणं कुर्वन्तौ आस्ताम् ।

✓जनपदीययोगस्पर्धायाम् प्रथमस्थाने सम्प्राप्त:
राजकीयवरिष्ठमाध्यमिकविद्यालयकाण्डाखाल:✓

जनपदीययोगप्रतियोगितानां
राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारस्य सभागारे स्थलसंयोजक: एवं प्रधानाचार्य: श्री मुकेशरावत:, श्री सुनीलरावत:, श्री सुरेशसिंह: दीपप्रज्ज्वालनेन शुभारम्भं कृतवन्त: । सम्पूर्णयोगकार्यक्रमस्य संयोजनं जनपदयोगसमन्वयक: श्री राकेशकण्वाल: विहितवान् । सः १४, १७ , १९ आयुवर्गे योगस्य छात्रान् योगस्य विशेषनियमानां च विषये अवगतं कारितवान् । कार्यक्रमस्य संचालनं कुलदीपमैन्दोला कृतवान्।

योगकार्यक्रमे निर्णायकेषु श्री सुरेशसिंह:, राकेशकण्डवाल:, महेन्द्रसिंह:, रीना रावत:, वीरेन्द्रसिंहभण्डारी, पूजा जोशी आदीनां मुख्यभूमिका आसीत्।

विभिन्नखण्डानां विभिन्नविद्यालयानाम् छात्राः स्वस्ववर्गेषु विशेषस्थानं प्राप्तवन्तः। १४ आयुवर्गे १७ आयुवर्गे १९ आयुवर्गे
बालिकासु जयहरीखालविकासखण्डस्य राजकीयवरिष्ठमाध्यमिकविद्यालय: काण्डाखालः प्रथमस्थानं प्राप्तवान् । दुगड्डाविकासखण्डस्य राजकीयवरिष्ठमाध्यमिकविद्यालय: झण्डीचौड् इत्यनेन बालकेषु १४ आयुवर्गे १७ आयुवर्गे १९आयुवर्गे प्रथमस्थानं प्राप्तम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button