संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

हरिद्वारजनपदे संस्कृताकादम्या: संस्कृतप्रतियोगिता: 26,27दिनांके

* हरिद्वारे संस्कृत-नाटकं, संस्कृत-समूह-गानम्, संस्कृत-समूह-नृत्यम्, संस्कृत-वादविवादः, संस्कृत-आशु-भाषणं, संस्कृतश्लोकोच्चारणम् स्पर्धाः प्रारप्स्यन्ते।।✓ * हरिद्वारजनपदे प्रतियोगिताया: मुख्यमार्गदर्शकेन मुख्यशिक्षाधिकारिणा के. गुप्तावर्येण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयस्य सहायकशिक्षकं डॉ. नवीनचन्द्रपन्तं प्रतियोगितायाः जिलासंयोजक: तथा च बी-डी-इण्टर-कालेज-भगवानपुरस्य सहायकाध्यापकं डॉ.विजयत्यागीं जनपद-सहसंयोजक: नियुक्त: कृत: सहैव हरिद्वारस्य षड्विकासखण्डमार्गदर्शकानां एवं संयोजकानां नियुक्ति: कृत: ।।

१५ तमे संस्कृतमहोत्सवस्य अन्तर्गतं उत्तराखण्डसंस्कृताकादमीद्वारा (उत्तरखण्डसर्वकारः) २६, २७ सितम्बरतः खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरीयस्य च संस्कृतछात्रप्रतियोगितानां आयोजनं भविष्यति।
उत्तराखण्डसंस्कृत-अकादमी-हरिद्वारद्वारा प्रतिवर्षं खण्ड-स्तरीय-जिला-स्तरीय-राज्य-स्तरीय-प्रतियोगितानां आयोजनं भवति, येषु षट्-प्रकार-प्रतियोगितानां आयोजनं भवति, येषु संस्कृत-नाटकं, संस्कृत-समूह-गानम्, संस्कृत-समूह-नृत्यम्, संस्कृत-वादविवादः, संस्कृत-आशु-भाषणं, संस्कृतश्लोकोच्चारणम् स्पर्धाः प्रमुखाः सन्ति। हरिद्वारजनपदे प्रतियोगिताया: मुख्यमार्गदर्शक: मुख्यशिक्षाधिकारिणा के. गुप्तावर्येण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयस्य सहायकशिक्षकं डॉ. नवीनचन्द्रपन्तं प्रतियोगितायाः जिलासंयोजक: तथा च बी-डी-इण्टर-कालेज-भगवानपुरस्य
सहायकाध्यापकं डॉ.विजयत्यागीं जनपद-सहसंयोजक: नियुक्त: कृत: सहैव हरिद्वारस्य षड्विकासखण्डमार्गदर्शकानां एवं संयोजकानां नियुक्ति: कृत: ।

बहादराबादविकासखण्डस्य मार्गदर्शक:
खण्डशिक्षाधिकारी स्वराजसिंहतोमरः एवं खण्डसंयोजक: डॉ. लक्ष्मीदेवी-आनंदमाई-सेवा-सदन-महिला-इण्टर-कॉलेज- हरिद्वारत:, नारसनविकासखण्डस्य मार्गदर्शक: खण्डशिक्षाधिकारी जगदीशप्रसादकाला एवं खण्ड-संयोजिका श्रीमती करिश्मा सैनी राजकीय-बालिका-कालेज झगडा झबरेडा, खानपुरविकासखण्डस्य मार्गदर्शक: खण्डशिक्षाधिकारी दीप्तियादव: एवं खण्डसंयोजक: सुरेशचंद्रकवल्टिया राष्ट्रीय-बालिका-इण्टर-कॉलेज-खानपुरं, रुड़कीत: मार्गदर्शक: खण्डशिक्षाधिकारी आकांक्षा राठौर: एवं खण्डसंयोजक: योगेशकुमार: राजकीय-उच्च-माध्यमिक-विद्यालय:, तांशीपुर, भगवानपुर विकासखण्डस्य मार्गदर्शक: संजीवजोशी एवं खण्डसंयोजक: उर्वशी पंवार: , राजकीय-बालिका-इण्टर-कॉलेज-सिकरौढा, लक्सरविकासखण्डस्य मार्गदर्शक: खण्डडशिक्षाधिकारी जगदीशप्रसाद: एवं खण्डसंयोजक: जयप्रकाश: प्राचार्य: किसान-इण्टर-कॉलेज-लक्सरत: दायित्वे सन्ति।

जनपदसंयोजकः डॉ. नवीनपन्तः अवदत् यत् खण्डस्तरं, जिलास्तरं, राज्यस्तरं च द्वयोः वर्गयोः षट्प्रतियोगिताः आयोजिताः भविष्यन्ति। कनिष्ठवर्गे षष्ठतः दशमपर्यन्तं कक्षायाः छात्राः भागं ग्रहीतुं शक्नुवन्ति तथा च वरिष्ठवर्गे 11कक्षात: स्नातकोत्तरकक्षापर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति एतासु प्रतियोगितासु छात्राः सर्वेषु पंजीकृतेषु सर्वकारीया:, अशासकीया:, निजीकनिष्ठ-उच्च-विद्यालया:, उच्चविद्यालया:, वरिष्ठविद्यालया:, सार्वजनिकविद्यालया: केन्द्रीयविद्यालया:, नवोदयविद्यालया:, विद्यामन्दिराणि, गुरुकुला:, ऋषिकुला:, संस्कृतविद्यालया:, संस्कृतमहाविद्यालया:, च उत्तराखण्ड-राज्यस्य स्नातक-स्नातकोत्तर-महाविद्यालयानाम् अपि च विश्वविद्यालयानाम् छात्राः भागं ग्रहीतुं शक्नुवन्ति। उक्तप्रतियोगितासु भागं ग्रहीतुं प्रतिभागिनः खण्डसंयोजकात् अथवा संस्कृत-अकादमी-जालस्थलात् www.uksa.ac.in इत्यस्मात् आवेदनपत्रं डाउनलोड् कर्तुं शक्नुवन्ति।
डॉ. पन्तः अवदत् यत् सर्वा: प्रतियोगिता: निःशुल्करूपेण आयोज्यन्ते। खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरस्य च प्रथमद्वितीयतृतीयस्थानं प्राप्तवन्तः विजेतारः साक्षात् प्रमाणपत्रेण च सम्मानिताः भविष्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button