संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाब

संस्कृतभारत्याः कार्यकर्तारः पञ्जाबशिक्षामन्त्रिणा हरजोतसिंहबैंसेन सह संस्कृतोत्थानाय मिलितवन्त:

विनयसिंहराजपूत:।पंजाब।

अद्य संस्कृतभारत्याः कार्यकर्तारः पञ्जाबस्य शिक्षामन्त्री हरजोतसिंहबैंसेन सह स्वग्रामगम्भीरपुरे एकां समागमं कृतवन्त:। यस्मिन् संस्कृतविषये चर्चा अभवत्, पञ्जाबप्रदेशे संस्कृतस्य पाठ्यक्रमे समावेशार्थं, रिक्तपदानि पूरयितुं च संस्कृतस्य उत्थानविषये चर्चा कृता , यस्य कृते शिक्षामन्त्री संस्कृतभारत्याः अधिकारिभ्यः १६ सितम्बर् दिनाङ्कस्य समयं दत्तवान्, यस्मिन् संस्कृतभारत्याः पंजाबप्रान्तस्य प्रान्तप्रचारप्रमुखः अजयकुमारः आर्यः, पटियालाजिल्ला सम्पर्कप्रमुखः डॉ ओमानदीपः पटियाला जिल्ला शिक्षकगणप्रमुखः डॉ. कपिलदेवः जिलामन्त्री विनयसिंहराजपूत: इत्यादिभिः सह संस्कृतोत्थानाय मन्त्री चर्चां कृतवान् चाग्रिमे षोडशदिनांके संस्कृतस्य पाठ्यक्रमस्य समावेशार्थं, रिक्तपदानि पूरयितुं च संस्कृतस्य उत्थानविषये चर्चां विधास्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button