संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

जनपदीयशरदकालीनक्रीडाप्रतियोगितानां शुभारम्भ:मुख्यातिथिः वैभवसैनी उपपुलिसाधीक्षक: कृतवान्

*कोटद्वारे हस्तकन्दुके यष्टिक्रीडायाम् योगे च जूडो इत्यत्र 14,17,19 आयुवर्गे बालकबालिकयो: प्रारभत् क्रीडा।। ✓ *क्रीडायाः भावना अस्मान् जीवने एकत्र अग्रे गन्तुं प्रेरयति - "वैभवसैनी"।।✓ *क्रीडायां सर्वे चिन्तां दूरीकृत्य परस्परं प्रेमभावनाभिः सह जीवन्ति - 'प्रधानाचार्य: मुकेशरावत:'।।

उत्तराखण्डप्रदेशे सर्वेषु जनपदेषु शरदकालीन- क्रीडाप्रतियोगितानाम् श्रीगणेश: अभवत्।
विद्यालयशिक्षाविभागस्य पौडीगढ़वालस्य १३ तमवर्षस्य जिलाशरदक्रीडाप्रतियोगिता २०२३ कोटद्वारे राजकीयक्रीडाक्रीडाङ्गणे प्रारब्धः । मुख्यातिथिः वैभवसैनी उपपुलिसाधीक्षक: कोटदारत: ध्वजारोहणं कृत्वा कार्यक्रमस्य आरम्भस्य घोषणां कृतवान्। तदनन्तरं क्रीडायाः शपथग्रहणेन सह वॉलीबॉल, हॉकी, जूडो, च योगक्रीडाः आरब्धाः ।

तस्मिन् अवसरे श्री वैभव सैनी अवदत् यत् क्रीडायाः भावना अस्मान् जीवने एकत्र अग्रे गन्तुं प्रेरयति, जीवने कोऽपि पृष्ठतः न अवशिष्यते। स्थलसंयोजक: राजकीय-इण्टर-कालेजकोटद्वारत: प्रधानाचार्यः मुकेशरावतमहोदयः अतिथिनां स्वागतं कुर्वन् उक्तवान् यत् जीवने क्रीडा एव शिक्षायाः एकमात्रं माध्यमम् अस्ति।क्रीडायां सर्वे चिन्तां दूरीकृत्य परस्परं प्रेमभावनाभिः सह जीवन्ति। सः सर्वेभ्यः शिक्षकेभ्यः अभिनन्दनं कुर्वन् क्रीडकानां कृते शुभकामनाम् दत्तवान् । कार्यक्रमस्य संचालनं कुलदीपमैन्दोला कृतवान्।

अस्मिन्नवसरे पौडीजनपदस्तरीय: 14 आयपर्यन्तं 17आयुपर्यन्तं 19आयुपर्यन्तं च बालिकाहस्तकन्दुकं प्रारभत् । 19आयुपर्यन्तं बालिकाहस्तकन्दुके रिखणीखालविकासखण्ड:
प्रथमविजेता च द्वितीय: दुगड्डाविकासखण्ड: सम्प्राप्त: । सहैव जनपदस्तरीयहॉकीक्रीडायां बालकेषु अन्त: आयु:१४ इत्यत्र प्रथम: दुगड्डाविकासखण्ड: जयहरीखाल: द्वितीय: तथा च १७ अन्त: आयु इत्यत्र प्रथम: दगड्डा जयहरीखाल: द्वितीय: एवं च १९ अन्त: आयु: इत्यत्र प्रथम: दुगड्डा जयहरीखाल: द्वितीय: सम्प्राप्ता: क्रीडासमन्वयक: विनोदपन्त: एवं जनपदक्रीडासमन्वयक: धीरेन्द्रसिंहबिष्ट: शरदकालीनक्रीडाया: सञ्चालनं कृतवन्तौ। अभिलेखीकरणे हरिशचन्द्रजोशी, सुनीता नेगी, डब्बलसिंह: कृष्णमोहनसती भारतसिंहनेगी योगप्रशिक्षक: राकेशकण्डवालवर्य: आदय: निर्णायका: प्रशिक्षका: च क्रीडास्पर्धाया: अवसरे उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button