संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाब

दशदिवसीयसंस्कृत-सम्भाषणकार्यशालायाः समापनं

केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीद्वारा तथा संस्कृतभारतीपञ्जाबसहकारेण च संस्कृतपालीविभागपंजाबीविश्वविद्यालयपटियालायां दशदिवसीयसंस्कृतसम्भाषणकार्यशालायाः समापनसमारोह: सञ्जात:।

केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीद्वारा तथा संस्कृतभारतीपञ्जाबसहकारेण च संस्कृतपालीविभागपंजाबीविश्वविद्यालयपटियालायां दशदिवसीयसंस्कृतसम्भाषणकार्यशालायाः समापनसमारोह: सञ्जात:। कार्यक्रमस्य आरम्भः विश्वविद्यालयध्वनिः तथा दीपप्रज्ज्वालनं, वैदिकाह्वानेन च अभवत् । अस्मिन् कार्यक्रमे विशेषातिथिरूपेण आगतः संस्कृतभारत्याः उत्तरक्षेत्रस्य संगठनमन्त्री डा. नरेंद्रः कुमारः समृद्धवैदिकपरम्परायाः महाभारतकालस्य तत्सम्बद्धविषयाणां विषये बोधितवान्। येन जनाः संस्कृतभाषां पठित्वा स्वस्य प्राचीनज्ञानपरम्परया सह सम्बद्धाः भवेयुः। प्रो. राजिन्दरपालसिंहः बराडः अध्यक्षः भाषासंकायत: पंजाबीविश्वविद्यालयपटियालात: विशेषातिथिरूपेण छात्रान् सम्बोधयन् सः अवदत् यत् संस्कृत-पञ्जाबी-भाषाया: च परस्परं निकटसम्बन्धः अस्ति, विषयेषु निष्पक्षतया चर्चा कर्तव्या इति। संस्कृतविभागप्रमुखः डॉ. वीरेन्द्रकुमारः सर्वेषां आगन्तुकानां विदुषां स्वागतं कृतवान् । कार्यशालायाः संचालकः शिक्षकः विनयसिंहराजपूतः स्मृतिचिन्हेन सम्मानितः । संस्कृत-पाली-विभागस्य सहायक-प्रोफेसरः डॉ. पुष्पेन्द्र-जोशी धन्यवादम् अकरोत् । अस्य कार्यक्रमस्य महत्त्वपूर्णं वैशिष्ट्यम् आसीत् यत् सम्पूर्णः कार्यक्रमः संस्कृतभाषायां आयोजितः आसीत् । कार्यक्रमस्य मञ्चसञ्चालनम् अपि विभागस्य छात्राः गगनदीपकौरेण, मनप्रीतकौरेण च कृतम्। अस्मिन् कार्यक्रमे छात्रैः गीतनाटकयोः आयोजनमपि कृतम् । कार्यक्रमे हिन्दी विभागाध्यक्षः डॉ. नीतू कौशलः डॉ. रजनी, डॉ. रविदत्तः कौशीषः, अजयः कुमारः प्रान्तप्रचारप्रमुखः संस्कृतभारती, पंजाबप्रांत: डॉ. कपिलदेवः, डॉ. संदीपः, डॉ. अंगराजः, आशीषः कुमारः, डॉ. ओमनदीपः एवं विभागस्य छात्राः महता उत्साहेन भागं गृहीतवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button