संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

विद्यामन्दिरे कोटद्वारे विशालवृक्षारोपणम्

एकः छात्रः एकः पादपः" इति आदर्शवाक्येन सह २ लक्षं पादपानां अभवत् प्रतिज्ञा

रोहितबलोदी।कोटद्वार।रितेशशर्मासरस्वतीविद्यामंदिरजानकीनगरे कोटद्वारे हरेलामहोत्सवावसरे वृक्षारोपणकार्यक्रमस्य आयोजनं सञ्जातं। विद्यालयप्रबन्धक: राजेन्द्रजखमोला, उपाध्यक्षमीनाक्षी शर्मा, जनसंपर्काधिकारी मणिरामशर्मा, विद्यालयप्राचार्य: मनोजकुकरेती व उपप्राचार्य: अनिलकोटनाला संयुक्तरूपेण मातृसरस्वत्या: समक्षे दीपप्रज्ज्वालनं कृतवन्त: । कार्यक्रमप्रमुखः आचार्यरोहितबालोदी इत्यनेन उक्तं यत् विद्याभारती प्रतिवर्षं “एकः छात्रः एकः पादपः” इति आदर्शवाक्येन सह २ लक्षं पादपानां प्रतिज्ञां च कृत्वा विशालं वृक्षारोपणकार्यक्रमं आयोजयति। विद्यालयपरिसरे प्रबन्धसमितिद्वारा एवं शिक्षकशिक्षिकाद्वारा जम्बुफलम्, आम्लं, आम्रं, मधुकर्कटी, तुलसी, बिभीतकी, अमालतास:, सिन्दूरवृक्ष:, अशोक: आदीनाम् वृक्षाणाम् रोपणं कृतं । एतेषां वृक्षाणां संरक्षणाय च सर्वे प्रतिज्ञां कृतवन्तः। अस्मिन् अवसरे सम्पूर्णः आचार्यपरिवारः उपस्थितः आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button