संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

सर्वं प्रमाणीक्रियते संस्कृतभाषया- कुलदीपमैन्दोला

उत्तरप्रदेशसंस्कृतसंस्थाद्वारा आयोजिते विंशतिदिवसीये ऑनलाइनसंस्कृतभाषाशिक्षणसत्रे रा.इ.का.कोटद्वारस्य संस्कृतशिक्षिक: मुख्यवक्तृरूपेण सम्बोधितवान्

प्रेषिका-डॉ.श्वेता-बरनवाल।उत्तरप्रदेश:।
संस्कृते प्रत्येकस्य अक्षरस्य अर्थं वक्तुं सामर्थ्यं वर्तते, तस्य व्याकरणं तावत् समर्थं यत् शब्दस्य च क्रिययो: निर्माणं कर्तुं शक्नोति। अद्यत्वे अपि सर्वं संस्कृतेन प्रमाणितम् अस्ति। अथवा यत्किमपि आविष्कृतम्, तत् सर्वं प्राचीनकालस्य संस्कृतम् अस्ति। भारतस्य पंचांगेषु कालगणना अद्यत्वे अपि वैज्ञानिकः अस्ति। रामभद्राचार्यवर्य: इत्यनेन वेदशास्त्रेभ्यः रामः अस्ति इति संस्कृतज्ञानकारणात् सिद्धं कृतवान् । अत्र आश्चर्यं नास्ति यत् अस्माकं सभ्यताः नदीतीरे विकसिताः सन्ति। ध्यात्वा मुनयः नदीतीरे तपं कृत्वा मन्त्रजपं कृतवन्त: । अत एव वेदर्षयः मन्त्रदृष्टार:। वेदेषु वाक् सरस्वती इति उच्यते, अस्माकं सभ्यता च सरस्वतीनद्याः तीरे दृश्यते। अत एव भारते सरस्वती पूज्यते। अद्यतनयुगे यावत् संस्कृतभाषायाः ज्ञानं न भवति तावत्
आश्चर्यस्य न विषयोऽयं, किन्तु यावद्भाषायाः ज्ञानं नास्ति तावद्वयं संस्कृतभाषायां विद्यमानं विषयमवगन्तुं न शक्नुमः । अतः कस्यचिद्विकासज्ञानाय संस्कृतभाषाज्ञानमावश्यकम् । संस्कृतभाषाशिक्षणे बहव्यः संस्थाः संलग्नाः सन्ति, किन्तूत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चाल्यमाना इयं कक्षा श्लाघ्नीयैव इति उक्तकथनं विंशति-दिवसीय संस्कृत-भाषा-शिक्षण-कक्षायां जुलै १४ दिनाङ्के बौद्धिकसत्रस्य आयोजने रा.इ.का.कोटद्वारत: संस्कृतशिक्षकेन कुलदीपमैन्दोलावर्येण स्ववक्तव्ये प्रोक्तम्। अयं महोदय: 2002त: संस्कृतभारत्या: कार्यकर्ता च संस्कृतसेवां निरन्तरं साधयति ।

कार्यक्रमस्य आरम्भे प्रशिक्षुसोनममहोदया सरस्वतिवन्दनां कृतवती । तदनन्तरं प्रशिक्षुलावण्यामहोदयया संस्थानगीतिका स्वागतगीतञ्च प्रशिक्षुकुमुदमहोदयया विहितम् । अतिथिपरिचयपुरस्सरं वाचिकस्वागतं योजनायाः वृत्तकथनञ्च संस्थानस्य प्रशिक्षिकया डॉ० श्वेता बरनवालद्वारा कृतम् ।

कार्यक्रमेऽस्मिन् उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रमुखसचिव: जितेंद्रकुमारः, निदेशक: विनयश्रीवास्तव:, सर्वेक्षिका डॉ० चन्द्रकलाशाक्या, प्रशिक्षणप्रमुखः सुधिष्ठमिश्रः, प्रशिक्षणसमन्वयकः धीरजमैठानी दिव्यरंजन: राधा शर्मा च उपस्थिता: आसन् । कार्यक्रमस्य सञ्चालनं लक्ष्मीकान्तमहोदयेन कृतं। हृषिकेशझामहोदयेन लीलामहोदयया च कक्षाविषयकानुभव: उक्तः । श्रावणमासोऽयं खलु अतः रितुकामतमहोदयया कज्जलिकाप्रस्तुतिः कृता । संस्थानेन न केवलं प्रातिभाषिक-संस्कृत- भाषा-शिक्षणमपितु, गृहे गृहे संस्कृतम्, योग- पौरोहित्याद्यनेकयोजनाभिः संस्कृतभाषायाः विकास: क्रियते ।

धन्यवादज्ञापनं प्रशिक्षिकाशिवानीमहोदयया शान्तिमन्त्रश्च शीतलमहोदयया विहितं । कार्यक्रमेऽस्मिन् संस्थानस्य सर्वे प्रशिक्षकाः सर्वे प्रशिक्षवश्चोपस्थिताः आसन् । न केवलं अध्येतारः, बालकाः पुरुषाः एतस्यां कक्षायां पठितुं शक्नुवन्ति, अपितु गृहिण्यः दिव्यांगा: अपि कक्षां कर्तुं शक्नुवन्ति , यथा स्वोद्बोधने कुलदीपमैन्दोलामहोदयैरुक्तं । तर्हि शीघ्रं कुर्वन्तु पञ्जीकरणाय- https://sanskritsambhashan.com/ लिंकविद्यते ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button