संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारजालौन

श्री-आदर्शसंस्कृतमहा-विद्यालये श्रावणमासमाहात्म्य-प्रतिपादयितुम् संगोष्ठ्याः आयोजनम्

वार्ताहरः – विपुलकुमारपाण्डेयः विदितमेतत्सर्वविदुषां यद्भारतीयपञ्चाङ्गानुसारेण श्रावणमासस्सर्वोत्तमः मासेति । इतोऽपि विशिष्टमिदं यद्मासेऽस्मिन पुरुषोत्तममासोऽपि वर्तते । सन्दर्भेऽस्मिन श्रीआदर्शसंस्कृतमहाविद्यालये श्रावणमासमाहात्म्यप्रतिपादयितुमेकाः संगोष्ठ्याः आयोजनं अस्मिच्छुभावसरे श्रीआदर्शसंस्कृतमहाविद्यालयस्य प्रबन्धकाः तथा च कालपीविधानसभायाः प्रख्यातविधायकाः श्रीविनोदचतुर्वेदी महोदयाः रूद्राभिषेकवैशिष्ट्यं प्रकटीकुर्वनुक्तवन्तः यद् द्वादशमासेषु साम्बसदाशिवाराधनेन कष्टाक्रान्तजनानां दुःखदुःखितानां सन्मानवानां दुःखव्यपोहनं भवति ।
पुनश्श्रावणमासस्य का कथा । अतस्सर्वैरपि स्वाभीष्टकामनासंसिद्ध्यर्थं भवानीशङ्करानुकम्पाञ्च प्राप्तुं विहितैः तत्तत्द्रव्यैः रुद्राभिषेकं अवश्यं करणीयम् । एवमेव श्रीआदर्शसंस्कृतमहाविद्यालयस्य प्राचार्याः डॉ श्री पूर्णेन्द्रमिश्रैरुक्तं यच्छास्त्रोक्तरीत्या नन्दिकेस्वरप्रीत्यर्थं रूद्राभिषेककरणेन भगवतः देवाधिदेवमहादेवकृपानुग्रहं महत्यनुकम्पां महान्तं मोदमनुभवनन्ते मनुष्याः मुक्तिमधिगच्छन्ति । सङ्गीतस्वरालङ्कारविभूषितमूर्धजाः व्याकरणसहायकाचार्याश्श्रीमन्रोहितचतुर्वेदिभिः
रुद्राभिषेकमाहात्म्यं विस्फोरयन् रूद्रशब्दव्याख्यानं व्याख्यापितं रू=कष्टान् दुःखान्, द्र= द्रावयतीति रुद्रः, तस्य रुद्रपदवाच्यस्याभिषेकं जनेभ्यः महत्फलं प्रयच्छति नास्ति सन्देहदोहलेशः न काचिद्विप्रतिपत्तिः।
मोहितमिश्राचार्येण केन द्रव्येन कृतेन रुद्राभिषेकेण को लाभः पक्षमिदं सुपोषितम् । व्याख्यानावसरे आचार्य श्री रविशंकरमहोदयेन अभ्यागतानां कृतशास्त्रावगाहनानां सुधीजनानां वाचिकस्वागतपुरस्सरमाभारञ्च प्रकटीकृतम् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button