संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

गुरु इति पदं त्रिषु अर्थेषु उक्तं वर्तते, यथा-गुरुः , सद्गुरूः, जगद्गुरुः —- “कुलाधिपतिः रामभद्राचार्यः”

राष्ट्रियसंगोष्ठ्या: अभवत् सम्पूर्तिकार्यक्रम:

चित्रकूटम् । उ.प्र.जगद्गुरु-रामभद्राचार्य-दिव्यांग- -विश्वविद्यालयः, चित्रकूटम् उत्तरप्रदेशसंस्कृतसंस्थानम् , लखनऊ इत्यनयोः संयुक्तरूपेण द्विदिवसीयराष्ट्रियसंगोष्ठ्या: सम्पूर्तिकार्यक्रम: अजायत् ।अस्याः सम्पूर्तिकार्यक्रमे आध्यक्ष्यं निर्वहति आजीवनं कुलाधिपतिः जगद्गुरुरामभद्राचार्यः, मुख्यातिथिः नरेन्द्रकश्यपः, माननीयमन्त्री चित्रकूटम् दिव्यांग-जनसशक्तिकरणः पिछड़ावर्ग-कल्याणविभागः उत्तर-प्रदेशः, विशिष्टातिथिः तुलसीपीठस्योत्तराधिकारी आचार्यरामचन्द्रदासः,डॉ. सुरजीतसिंहः , पूर्वकैबिनेटमन्त्री उत्तर-प्रदेशः, आर. के. सिंहपटेल: सांसदः बांदा-चित्रकूटम् , अशोकजाटवः अध्यक्षः जिला -पंचायत- चित्रकूटम्, चंद्रमानखरे जिलाध्यक्षः भाजपा, चित्रकूटम् इत्येषामुपस्थितौ कुलाधिपतिभिः मुख्यातिथिना च सर्वप्रथमं सरस्वत्याः समक्षं दीपप्रज्वालनेन माल्यार्पणेन च सम्पूर्तिकार्यक्रमः समारब्धः । अत्र सरस्वतीवन्दना डा0 ज्योतिवैष्णवेन प्रस्तुता। कुलपतिना प्रो. शिशिरकुमारपाण्डेयमहोदयेन मञ्चस्थातिथीनाम् उत्तरीयश्रीफलादिभिः स्वागतं विहितं। पूर्वकैबिनेटमन्त्री डा0 सुरजीतसिंहः उक्तवान् यत् जगद्गुरुचरणयोः मुहुर्मुहुः प्रणम्य गुरुपूर्णिमा स्वगुरोः सत्कारपूर्वकं गुरुनिर्दिष्टसन्मार्गानुसारेण सन्मार्गं चलितुं उत्प्रेरयति। मुख्यतिथिः नरेन्द्रकश्यपमहोदयः अवोचत् यत् अहं सर्वादौ सद्गुरून् जगद्गुरुरामभद्राचार्यान् प्रणौमि । यतोहि एतेषां महापुरुषाणां दर्शनेन सर्वाः बाधाः स्वयमेव दूरङ्गताः भवन्ति।भवत्सदृशाः दिव्यविभूतयः विश्वविद्यालयस्य दिव्याङ्गविद्यार्थिनः प्रति तज्जीवनं प्रति च प्रेरणास्रोतासि विद्यन्ते। जगद्गुरूणामाज्ञानुसारेण दिव्यांगविश्वविद्यालयस्य राज्यविश्वविद्यालयेन सह तत्रत्यानां विद्यार्थीनां कृते राज्यसर्वकारः उच्चस्तरीयाम् आधुनिकशिक्षां प्रदास्यति,छात्रानुरूपं च नवीनपाठ्यक्रमाः गतिविधयश्च सञ्चालयिष्यति। आचार्येण रामचन्द्रदासेन उक्तं यत् सम्प्रति अस्मत्समक्षे विश्वविश्रुताः परमविद्वांसः सद्गुरुत्वेन जगद्गुरवः विराजमानाः वर्तन्ते। कार्यक्रमे अध्यक्षेण कुलाधिपतिना जगद्गुरुरामभद्राचार्येण निगदितं यत् समेषां मंगलानुशासनेन सह अस्य दिव्यांगविश्वविद्यालयस्य राज्यविश्वविद्यालयत्वेन मान्यताप्रदानार्थम् उत्तरप्रदेशस्य माननीयाय मुख्यमन्त्रिवर्याय योगी-आदित्यनाथाय कार्तज्ञ्यं निवेदयामि । जगद्गुरु: अवदत् यत् गुरु इति पदं त्रिषु अर्थेषु उक्तं वर्तते, यथा-गुरुः , सदगुरूः, जगद्गुरुः इति ।सामान्यः गुरुः एतदनन्तरं सद्गुरूः अन्तिमे जगद्गुरुःभवति । रामचरितमानसे त्रिधा सद्गुरु शब्दस्य प्रयोगोऽभवत्। जीवः सर्वदा सद्गुरोः दर्शनं प्राप्य धन्यतामनुभवति । गुरुपूर्णिमावसरे भक्तः स्वगुरोः दीक्षां प्राप्य जीवनपर्यन्तं स्वगुर्वादेशं परिपालयति। अवसरेऽस्मिन् सांसदः बांदाचित्रकूटयोः आर. के. पटेल अपि सम्बोधितवान्।कार्यक्रमेऽस्मिन् जिला पंचायताध्यक्षः अशोकजाटवः, सहकारीबैंकचेयरमैनपंकज-अग्रवालः, नगरपालिकाध्यक्षः नरेन्द्र: गुप्तः, प्रो. रामबहादुरशुक्लः, डॉ. मूलचन्द्र-शुक्लः, प्राध्यापकाः प्राध्यापिकाः, विद्यार्थिनः,प्रतिभागिनः,अतिथयश्च समुपस्थिताः आसन् । अन्ते कुलसचिवः आर. पी. मिश्रमहोदयः अतिथिभिः सह समेषां कार्तज्ञ्यं विज्ञापयति। कार्यक्रमस्य सम्यक् संयोजनं कृतवती संयोजिका डॉ. प्रमिला मिश्रा सञ्चालनं च डॉ. गोपाल मिश्रः सम्पादितवान्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button