संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

अस्माकं भारतीयसंस्कृतेः वैशिष्ट्यं प्रकाशयति गुरुशिष्ययोर्गौरवं -“डा.मूलचन्द्रशुक्ला”

भारतीयपरम्परा गुरुपूर्णिमा चेत्यस्मिन्विषये संगोष्ठी

चित्रकूटम् । भारतीयपरम्परा गुरुपूर्णिमा चेत्यस्मिन्विषये उत्तरप्रदेशजगद्गुरु-रामभद्राचार्य- दिव्यांग-राजकीय -विश्वविद्यालय:, उत्तरप्रदेश- संस्कृत-संस्थानम् अनयोः संयुक्ततत्त्वावधाने संगोष्ठ्या: शुभारम्भ: सञ्जात: ।
बुधवासरे प्रथमसत्रे आध्यक्ष्यं निर्वहति माननीयः कुलपतिः प्रो. शिशिरकुमारपाण्डेयमहोदयः । मुख्यातिथिरूपेण पंजाबतः डॉ. शिवानी शर्मा, सारस्वत-अतिथिः डॉ. नीरजतिवारी , विशिष्टातिथिः कुलसचिवः रमापतिमिश्रः, डा.महेंद्रकुमार-उपाध्यायः अधिष्ठाता शिक्षासंकायत:, डॉ. विनोदकुमारमिश्रः अधिष्ठाता कलासङ्कायत:, संस्कृतविभागाध्यक्षा डॉ. प्रमिला मिश्रा च इत्येतेषां समवाये कार्यक्रमः प्रारब्धः ।

कार्यक्रमस्य शुभारम्भः कुलपतिवर्यैः दीपप्रज्वलनपूर्वकं कृतः । अतिथीनां वाक्पुष्पैः स्वागतेन सह परिचयः पुरस्क्रियते संगोष्ठ्याः संयोजिकया डॉ. प्रमिला मिश्रा महोदयया । डॉ. गोपालमिश्रः सञ्चालनमकरोत् । अवसरेऽस्मिन् रामनगरतः डॉ. मूलचन्द्र-शुक्लः , सूर्यप्रकाशमिश्रादयः, विश्वविद्यालयस्य प्राध्यापिकाः प्राध्यापकाः कर्मचारिणः संगाोष्ठीसहभागितारश्च उपस्थिता: आसन्।

संगोष्ठ्याः तृतीये सत्रे सत्राध्यक्षरूपेण जम्मूविश्वविद्यालयतः प्रो. रामबहादुरशुक्लः,मथुरातः मुख्यवक्ता डॉ. रामदत्तमिश्रः , विशिष्टवक्ता डॉ. रुद्रनारायणः, सारस्वतातिथिः डॉ. रामनेवाज: पाण्डेयः, सम्मान्य-अतिथिः/विशिष्टवक्तारूपेण पी. एन. जी राजकीयस्नातकोत्तर- महाविद्यालय-रामनगरतः डॉ. मूलचन्द्र-शुक्लश्च अधिमञ्चं विराजमाना: आसन् । एतैः अतिथिभिः ” भारतीयपरम्परा गुरुपूर्णिमा च ” इत्यस्मिन् विषये विद्वतापूर्णं व्याख्यानं प्रस्तुतम् । तत्र सत्राध्यक्षेण प्रो. रामबहादुरशुक्लेन विशिष्टवक्त्रा डॉ. मूलचन्द्र-शुक्लेन च सन्दर्भेऽस्मिन् प्रोक्तं यत् सद्गुरुः अस्मत् जीवनगतं सम्पूर्णमपि अन्धकारं निवार्य प्रकाशयुक्तं निर्माति । भारतीयज्ञानपरम्परायां गुरुपूर्णिमा अत्यन्तं प्राचीनतमा परम्परा वर्तते या अस्माकं भारतीयसंस्कृतेः वैशिष्ट्यं प्रकाशयति गुरुशिष्ययोर्गौरवञ्च वर्धयति। सत्रमत्र सञ्चालितं डॉ. शशिकान्तत्रिपाठीवर्येण ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button