संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
टेक्नोलॉजीदेशदेहलीमनोरंजनराजनीतिलाइफस्टाइलविदेश

मुख्यवार्ता:

🔹युक्रेनदेशेन सैन्यविमानं पातितम्, यत्र सर्वेपि ७४ जनाः प्रयातारः मृताः, येषु युद्धबन्धिनः अपि आसन् इति रूसदेशः यूक्रेनं दूषयति।

🔹सौद्यरेबियादेशः सप्ततिवर्षाणाम् अनन्तरं प्रथमं पेयमद्यपानापणम् आरब्धवान्।

🔹ए एस् ऐ संस्थया ज्ञानवापी मस्जिदस्य स्थाने पूर्वं काशीविश्वनाथस्य मन्दिरम् आसीदिति प्रमामणितम्।

🔹इन्धनकरस्य वृद्धेः अनन्तरं फ्रान्सदेशस्य क्रोधाविष्टाः कृषकाः प्यारिस्-नगरम् उत्पीडयन्ति।

🔹भारते विगतेषु दशसु मासेषु प्रायः ७५,००० पेटन्ट्-पत्राणि प्रदत्तानि इति पीयूषगोयलः उक्तवान्।

🔹२०२४ तमे वर्षे द्वाभ्यां युगलपुरस्काराभ्यां सह १३४ जनाः पद्मपुरस्कारेणः पुरस्कृताः सन्ति । ५ पद्मविभूषणानि, १७ पद्मभूषणानि, ११० पद्मश्रीपुरस्काराः तत्र भवन्ति । ३० महिलाः, ८ वैदेशिकाः / अनिवासिनो भारतीयाः/ भारतीयमूलाः व्यक्तयः/ ओसीआई नव जनाः मृत्योरनन्तरं च पुरस्कृताः सन्ति ।

🔹शेट्टरः भारतीयजनतापक्षं प्रत्यागमत् ।

🔹एकस्मिन् मासे येमेनात् प्रतिगन्तुं ब्रिटन-अमेरिकादेशयोः जनान् हौथि-अधिकारिणः सूचितवन्तः।

© विश्वसंवादकेन्द्रम्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button