संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
पंजाबसंस्कृत भारती

मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

पंजाब। संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिविरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं ज्यायमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात: ) पंचमं एवं षष्ठमध्यायस्य वाचनं कारितम् । मुख्यवक्तारूपेण आगत: डॉ. वीरेंद्रवर्य: संस्कृतविभागाध्यक्ष: पंजाबीविश्वविद्यालयपटियालात: कर्मयोगे एवं कर्मसन्यासविषये सम्बोधितवान् ।

मंचसंचालनं डॉ. रविदत्त: हिंदीविभागपंजाबीविश्वविद्यालयस्य
सहायकाचार्य: कृतवान् । अस्मिन् अवसरे संस्कृतभारत्या: पंजाबप्रांतस्य सहमंत्री अजयकुमार: आर्य: , मंदिरसमितिप्रमुख: दीपचंदगुप्त: , मक्खनलालसिंगला ,मक्खजैन:, छज्जूराम: मित्तल: एते विशेषरूपेण उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button