संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

उत्तराखण्डसंस्कृतपरिषद: परीक्षापरिणाम: संस्कृतशिक्षामन्त्रिणा धनसिंहरावतेन घोषित:

["पूर्वमध्यमापरीक्षायां जयपपनै 87.4% च उत्तरमध्यमापरीक्षायां अजयकैन्थोला 82.4 अंकै: सह राज्ये प्रथमस्थाने"]

• परिषदः सचिवः डॉ. वाजश्रवा-आर्यः उत्तीर्णछात्राणां अभिभावकानां च हार्दिकं अभिवादनं कृतवान्।

• संस्कृतनिदेशक: श्रीशिवप्रसादखाली अनुत्तीर्णछात्रेभ्य: प्रोत्साहयन् उक्तवान् यत्तै: पूर्णसमर्पणेन आगामिपरीक्षायां सफलतां प्राप्तुं निरन्तरप्रयत्नाः करणीया: ।

उत्तराखण्ड। उत्तराखण्ड-संस्कृत-शिक्षा-परिषद: अस्य वर्षस्य पूर्वमध्यमा-उत्तरमध्यमयो: परीक्षापरिणाम: बुधवासरे 24.05.2023 दिनांके अपराह्नसमये एकादशवादने प्रकाशितोभवत् । परिषदीयपरीक्षाया: 2023 वर्षस्य आयोजनं 8 अप्रैल 2023 दिनांकत: 21 अप्रैल 2023दिनांकपर्यन्तं प्रदेशस्य 25 परीक्षाकेन्द्रेषु परीक्षा अभवत् । तत्रैव परीक्षाया: उत्तरपुस्तिकानां मूल्यांकनं 27 अप्रैल दिनांकत: 03 मई 2023दिनांकपर्यंतं ऋषिकुलविद्यापीठब्रह्माचर्याश्रमसंस्कृत- -महाविद्यालयहरिद्वारे सम्पन्नं जातं । संस्कृतपरिषद: अस्यां परीक्षायां पूर्वमध्यमात: आहत्य 634 परीक्षार्थिन: एवं उत्तरमध्यमात: आहत्य 945 परीक्षार्थिन: पंजीकृता: आसन् । उत्तराखण्डस्य संस्कृतविद्यालयानां 1579 छात्राणां परीक्षापरिणाम: परिषद्द्वारा बुधवासरे प्रकाशितमभवत् ।

बुधवासरे उत्तराखण्डसंस्कृतशिक्षापरिषद: अंतर्गतं संस्कृतविद्यालयानां पूर्वमध्यमादशमकक्षाया: तथा उत्तरमध्यमाद्वादशकक्षाया: छात्रांणां परीक्षापरिणाम: राज्यस्तरे मन्त्रिभिस्सह संस्कृतविद्वद्भि: संघोषितं । संस्कृतशिक्षामंत्री डॉ. धनसिंहरावत:, कैबिनेटमंत्रीविद्यालयी शिक्षा, संस्कृतशिक्षा, चिकित्सा स्वास्थ्यं, चिकित्साशिक्षा, सहकारी-उत्तराखंडसर्वकारत:, निदेशक: श्री शिवप्रसादखाली, सचिव: उत्तराखंडसंस्कृतशिक्षापरिषद: श्री वाजश्रवा-आर्य:, उपनिदेशक: संस्कृतशिक्षात: श्री पद्माकरमिश्रा, डॉ. प्रकाशपन्त:, डॉ. अंकितसैनी, श्री अनसुयाप्रसादसुन्दरियाल:, डॉ. नवीनपन्त: आदिभिश्च उत्तराखंडसंस्कृतशिक्षापरिषद्हरिद्वारत: – आयोजितस्य २०२३ वर्षस्य पूर्वमध्यमाद्वितीयवर्षस्य उत्तरमध्यमाद्वितीयवर्षस्य च परिषदीयपरीक्षापरिणामः घोषित:।

अस्मिन् अवसरे श्री शिवप्रसादखाली, निदेशक:/अध्यक्षः, संस्कृतशिक्षा-उत्तराखण्डत:, ऋषिकुलविद्यापीठब्रह्मचर्याश्रम- -संस्कृतविद्यालयहरिद्वारस्य छात्रैस्सह वैदिकोच्चारणेन दीपप्रज्ज्वालनेन कार्यक्रमस्य उद्घाटनं कृतवान्, तदनन्तरं संस्कृतशिक्षामन्त्री डा. धनसिंहरावत: साक्षाद्दृश्यान्तर्जालीयपटलमाध्यमेन परीक्षापरिणामपुस्तिकाया: अनावरणं कृतवान् ।

माननीयमन्त्री सन्देशं दत्त्वा सर्वेभ्यः उत्तीर्णछात्रेभ्यः अभिनन्दनानि शुभकामनाश्च प्रसारितवान्, तेषां उज्ज्वलभविष्यस्य कामनां च अकरोत्। राज्यस्तरस्य योग्यतासूचौ स्थानं प्राप्तवद्भ्य: अभ्यर्थिभ्य:, तेषां पितृभ्य:, तेषां शिक्षकेभ्य: च अभिनन्दन् परिषदः निदेशक: सभापतिश्च श्रीशिवप्रसादखालीवर्य: अवदत् यत् ये छात्राः अभ्यर्थिनः परीक्षायां सफलतां प्राप्तुं न शक्तवन्तः ते पूर्णसमर्पणेन आगामिपरीक्षायां सफलतां प्राप्तुं निरन्तरप्रयत्नाः करिष्यन्ति। कार्यक्रमस्य अवसरे परिषदः सचिवः डॉ. वाजश्रवा-आर्यः सर्वेभ्यः उत्तीर्णछात्रेभ्यः तेषां अभिभावकेभ्यः च हार्दिकं अभिवादनं कृत्वा उपस्थितानां सर्वेषां अतिथिनां तथा च सर्वेषां कर्मिणां कृते च ये प्रत्यक्षतया परोक्षतया च संचालने योगदानं दत्तवन्तः च परिषद्परीक्षायां, मूल्याङ्कने, परीक्षापरिणामनिर्माणे सहयोगं कृतवन्त: तेषां सर्वेषाम् आभारं प्रकटितवान्।

उत्तराखण्डस्य संस्कृतपरिषदीयपरीक्षायां पूर्वमाध्यमिकपरीक्षायां दुर्गादत्तकपिलाश्रमीसंस्कृतमहाविद्यालयहल्द्वानीत: जयपपनै ४३७ अंकैः ८७.४ प्रतिशतं च प्राप्य राज्ये प्रथमस्थानं प्राप्तवान्।
तथा श्रीजयदयालसंस्कृतविद्यालयश्रीनगरपौडीत: अभिषेकममगांई ४३६ अंकं प्राप्य ८६.२% इत्यनेन सह राज्ये द्वितीयस्थानं प्राप्तवान् तथा च श्रीभारतीसंस्कृतविद्यालयकनखलहरिद्वारतः सुबोधव्यासः ४३३ अंकं प्राप्य ८६.६% अङ्कै: सह राज्ये तृतीयस्थानं प्राप्तवान् ।
उत्तरमध्यमापरीक्षायाः परिणामे संस्कृतविद्यालयभुवनेश्वरीतः अजयकैन्थोला ४१२ अंकै: सह राज्ये ८२.४ प्रतिशतं प्राप्य प्रथमं स्थानं प्राप्तवान् तथा च स्वर्गाश्रमन्यासस्यसंस्कृतविद्यालयात् सुधेशबडोनी ४११ अंकैः ८२.२ प्रतिशतं प्राप्य राज्ये द्वितीयस्थानं प्राप्तवान् तथा च दुर्गादत्तकपिलाश्रममीसंस्कृतविद्यालयहल्द्वानीत: लोकेशचन्द्रबडसिलीयः ४११ अंकैः ८२.२ प्रतिशतं प्राप्य
राज्ये तृतीयस्थानं प्राप्तवान्।

*परिषदीयपूर्वमध्यमापरीक्षायां १.४१प्रतिशत्वृद्धिश्च ८.२७% उत्तरमध्यमापरीक्षायां न्यूनतास्तर:*

पूर्वमध्यमाद्वितीयवर्षे परीक्षायां ६३४ छात्राः उपस्थिताः अभवन् तथा च उत्तीर्णछात्राणां संख्या ५६८ अस्ति तथा च २०२३ तमे वर्षे आहत्य प्रतिशतं ८९.५८ आसीत् २०२२ तमस्य वर्षस्य पूर्वमध्यमाद्वितीयवर्षपरीक्षायाः परिणामे २०२२ तमस्य वर्षस्य तुलने १.४१ प्रतिशतं वृद्धिः अभवत् ।
तत्रैव उत्तरमध्यमाद्वितीयवर्षे आहत्य ९४५ छात्राः उपस्थिताः अभवन् तथा च उत्तीर्णछात्राणां संख्या ८२४ अस्ति तथा च २०२३ तमे वर्षे आहत्य प्रतिशतं ८७.३८ आसीत् उत्तरमध्यमाद्वितीयवर्षपरीक्षायाः २०२३ तमस्य वर्षस्य परिणामे २०२२ तमस्य वर्षस्य तुलने ८.२७ प्रतिशत् न्यूनता अभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button