संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

संस्कृतसम्भाषणस्य आरम्भः संस्कृतविद्यालयजोगथे अभवत्

सप्तदिवसीयस्य सम्भाषणशिबिरस्य आरम्भः संस्कृतभारती-उत्तरकाशीद्वारा कृत:

उत्तरकाशी। संस्कृतभारती उत्तराञ्चलन्यासः संस्कृतभाषायाः प्रचारार्थं समये समये निरन्तरं वार्तालापशिबिराणि, भाषाबोधकक्षां, शिक्षकप्रशिक्षकप्रशिक्षणवर्गं च आयोजयति। सप्तदिवसीयस्य सम्भाषणशिबिरस्य आरम्भः संस्कृतभारती-उत्तरकाशीद्वारा सरस्वती संस्कृतविद्यालयजोगथे सरस्वतीवन्दनया सह कृतः, तदनन्तरं अतिथिनां स्वागतं कृतम्। अस्मिन् अवसरे राकेश सेमवालः संस्कृतं सरलभाषा इति उक्तवान् । सम्भाषणेन एव ज्ञायते । संस्कृतेन कोऽपि सम्भाषणं कर्तुं शक्नोति। संस्कृतभारत्याः पत्राचारशिक्षिका आनन्दा हिमानी, शिक्षकः लोकेशशर्मा च अत्र सप्तदिनानि यावत् छात्रान् संस्कृतसम्भाषणे निपुणान् कुरुत:।

आयोजने संस्कृतभाषायाः प्रचारार्थं संस्कृतभारत्याः प्रयत्नाः वक्तारः प्रशंसिताः, तदनन्तरं शिबिरस्य शिक्षिका आनन्दा शिक्षकः लोकेशशर्मा च प्रथमदिने छात्राणां संस्कृतेन परिचयं कृत्वा सरलतया सम्भाषणं आरब्धवन्तौ।

सप्तदिवसीयसम्मेलनशिबिरस्य उद्घाटनस्य अवसरे विद्यालयस्य प्रभारी प्रधानाध्यापकः मनोजकुमारः संस्कृतभारत्याः त्रिहरीविभागसंयोजकः विद्यालयस्य शिक्षक: राकेशसेमवालः शशिकान्तबहुगुणा सुरेन्द्रभट्टः बिन्देशजगछडी दीपकः गैरोला तथा सर्वे छात्राः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button