संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

“गीता सर्वसमाजस्य कल्याणमार्गमेव प्रस्तौति”– -प्राचार्य:एमसीपाण्डे

एकादशी-श्रीमद्भगवद्गीता-दशम-राष्ट्रिया व्याख्यानगोष्ठी अन्तर्जालमाध्यमेन सम्पन्ना

• यदा दुःखानाम् अनुभवं भवति तदा शास्त्राणाम् अध्ययनं करणीयम्—“प्रो.जितेन्द्रकुमारशर्मा”

• विश्वसंस्कृतकुटुम्बकम् इत्याख्ये फेसबुकसमूहे सजीवप्रसारणे ३०० जनाः सम्मिलिता: आसन्।

वार्ताप्रेषक:-डा.मूलचन्द्रशुक्ल:।रामनगर। संस्कृतविभाग:, इन्दिरागान्धि-राष्ट्रिय-जनजातीय- विश्वविद्यालय:,अमरकण्टक- मध्यप्रदेश:, पी.एन.जी. राजकीय-स्नातकोत्तर- महाविद्यालय:,रामनगर- नैनीताल-उत्तराखण्ड:, चातुर्वेद -संस्कृतप्रचार- संस्थानं, काशी, उत्तरप्रदेशः इत्येतेषां संयुक्ततत्त्वावधाने अन्तर्जालीया एकादशी श्रीमद्भगवद्गीता पाक्षिकी दशमी व्याख्यानगोष्ठी सफलतापूर्वकं सम्पन्नतां याता। कार्यक्रमस्य सञ्चालनम् अकरोत् संस्कृतसमुपासक: कार्यक्रमस्य संयुक्त-संयोजक:
डॉ. सचिनदेवद्विवेदमहोदय:, सहायकाचार्यः,संस्कृतविभागस्य इन्दिरागान्धि- राष्ट्रिय-जनजातीय- विश्वविद्यालय-अमरकण्टक- -मध्यप्रदेशत:।

अस्माकं परम्परानुसारेण विघ्नविनाशाय मङ्गलाचरणं वाराणसीस्थ-आचार्येण रत्नाकरमिश्रेण विहितम् ।
गीताश्लोकपाठमकरोत् डॉ. अम्बरीषमिश्र: । कार्यक्रमस्य समन्वयकः प्राचार्यः, राजकीयस्नातकोत्तरमहाविद्यालय- -रामनगर-नैनीताल-उत्तराखण्डत: प्रो. एम. सी. पाण्डेमहोदयः प्रस्तावनापुरस्सरं स्वागतभाषणं प्रस्तुतवान् । तेन प्रास्ताविकोद्बोधने उक्तं यत् गीता सर्वसमाजस्य कल्याणमार्गमेव प्रस्तौति तथा च सा अध्यात्म-समाजादिदृष्ट्या सर्वविधप्रबन्धनस्य मार्गमन्वेषयति।

कार्यक्रमेऽस्मिन् मुख्यवक्तृरूपेण प्रोफेसर-जितेन्द्रकुमारशर्मा सङ्कायाध्यक्ष: अध्यक्षश्च आसीत् योगविज्ञानविभागस्य, इन्दिरागान्धी राष्ट्रिय-जनजातीय-विश्वविद्यालय-अमरकण्टकत:, “गीतायां समत्वयोगः,समकालिकविमर्शः” इत्यस्मिन् विषये प्रोक्तवान्। तेन कथितं यत् ‘यदा दुःखानाम् अनुभवं भवति तदा शास्त्राणाम् अध्ययनं करणीयम्। अर्थात् दुःखानि न आगच्छेयुः तदर्थं पूर्वमेव शास्त्राणि अध्येतव्यानि । अनेन गीतायां भगवता श्रीकृष्णेनोक्तं समत्वयोग उच्यते यत् भो धनञ्जय आसक्तिं विहाय सिद्धि-असिद्ध्योः कर्तव्याकर्तव्ययोश्च विचारान् परित्यज्य कर्तव्यकर्माणि कुर्वन् समतास्थितौ भवतु -“सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते” तेनोक्तं च साहित्य-दर्शनयोः संयोजनेन विशदरूपेण प्रकृतेरुपादानस्य संरक्षणं विधेयम् ।

* उचितम् अनुचितं वा विचिन्त्य अस्माभिः कार्यं करणीयम्*

विशिष्टवक्तृरूपेण प्रोफेसर- विनोदकुमारगुप्तमहोदयः आचार्य: उपनिदेशकश्च ,मानविकीविद्याशाखाया:, उत्तरप्रदेश- -राजर्षिटण्डन-मुक्त -विश्वविद्यालयप्रयागराजत: अयं आचार्यः “गीतायाम् आसुरी सम्पत् ” इत्यस्मिन् विषये उक्तवान् यत् मनुष्य: यदा कदापि अनुचितं कार्यं करोति तदा एकक्षणं तु आयाति यदा स: पश्चातापं करोति। अतः उचितम् अनुचितं वा विचिन्त्य अस्माभिः कार्यं करणीयम् इत्यादिकं मार्गदर्शनं कृतवान्। अन्ते तेन आसुरीप्रकृतिकजनानां गीतोक्तं लक्षणं प्रस्तूयते-” आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। सभाध्यक्षरूपेण प्रो. आलोकश्रोत्रिय:, विभागाध्यक्ष: सङ्कायाध्यक्षश्च मानविकी एवं भाषासङ्कायत:, अधिष्ठातृ- अकादमिकत: इन्दिरागान्धी-राष्ट्रिय-जनजातीय-विश्वविद्यालय- -मध्यप्रदेशत: स्वीये व्याख्याने उक्तवान् यत् यदा अस्माभिः आत्मसंयमपूर्वकं परोपकारादिनैतिककार्यं च क्रियते तदा बाह्याडम्बरविषयस्य आवश्यकतैव न भवितुमर्हति।

कार्यक्रमस्य अन्ते धन्यवादं विज्ञापयति कार्यक्रमस्य सहसमन्वयक: डॉ० मूलचन्द्रशुक्ल:,सहायकाचार्य: संस्कृतविभागत: पी०एन०जी०राजकीयस्नातकोत्तर- महाविद्यालय-रामनगर-उत्तराखण्डत:।शुभकामनासन्देशं प्रस्तुतवान् कार्यक्रमस्य सूत्रधारः संयोजकश्च डॉ० चन्द्रकान्तदत्तशुक्लवर्य: ,सहायकाचार्यः, राजकीयस्नातकोत्तर- -महाविद्यालयमुहम्मदाबाद-गोहना-मऊ-उत्तरप्रदेशत:।
कार्यक्रमे प्रो.जया तिवारी, प्रो.भगवत्शरणशुक्लः, प्रोफे. जी. सी. पन्तः, प्रो.वन्दनापाण्डेया, प्रो.मञ्जुलता, डॉ.प्राङ्गेशकुमारमिश्र:, डॉ. अम्बरीषमिश्र:, डा. योगेशचन्द्रः, डॉ. सुभाषचन्द्रपोखरियालः, डॉ. दीपकखाती, डॅा.अजयसक्सेना,डॉ. अनीता जोशी, डॉ. जे. पी. त्यागी, डाॅ. कुलदीपमैन्दोला, डॉ. आरुणेयमिश्रः, डा. नितिन ढोमने, डॉ. सन्ध्या ठाकुरः, डॉ॰ अवनीन्द्रकुमारपाण्डेयः, गोविन्दसिंहजंगपांगी, अखिलेश:, मो .बेलाल:, शिवानी, सन्ध्या, गायत्री, , प्रियंका यादव:,आंचलगुप्ता,अनन्या, महक:, रोशन: इत्यादयो विद्यालय-महाविद्यालय-विश्वविद्यालयेभ्यो बहव: प्राध्यापक-प्राध्यापिकाः विद्यार्थिनः जिज्ञासवश्च उपस्थिता: आसन्। विश्वसंस्कृतकुटुम्बकम् इत्याख्ये फेसबुकसमूहे सजीवप्रसारणे ३०० जनाः सम्मिलिता आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button