संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

संस्कृतभारत्या: देहरादूनजनपदगोष्ठ्याम् कार्ययोजना चर्चिता।

संस्कृतभारती-उत्तराञ्चलस्य प्रत्येकस्मिन् जनपदे गोष्ठी जायमाना अस्ति। क्रमेत्र देहरादूनजनपदस्य गोष्ठी अद्य मेमासस्य चतुर्दशदिनाङ्के रविवासरे
धर्मपुरदेहरादूनस्थस्य जनकल्याणकेन्द्रस्य सभागारे सुसम्पन्ना अभवत्। गोष्ठ्यां संस्कृतभारत्याः वार्षिककार्ययोजनाविषये चर्चा जाता, विशेषरूपेण जनपदसम्मेलनस्य विषये निर्णय: स्वीकृत: यत् अस्य वर्षस्य नवम्बरमासस्य पञ्चमे दिनाङ्के एकदिवसीयं जनपदसम्मेलनं देहरादूनमहानगरे आयोजयिष्यते, जनपदसम्मेलननिमित्तं विविधदायित्वानामपि निर्धारणं जातम्, सम्मेलने अग्रिमविभिन्नकार्यक्रमाणां रूपरेखा अपि चर्चिता।
जनपदगोष्ठ्यां ग्रीष्मकालीनप्रशिक्षणवर्गस्य, साप्ताहिकमेलनस्य तथा च वार्षिक कार्य-योजनां विषये अपि चर्चा कृता।

गोठ्याम् प्रान्तमन्त्री श्री संजू प्रसाद ध्यानी, विभागसंयोजक: श्री नागेन्द्र दत्त व्यासः, सहविभागसंयोजक:, डा नवीन जसोला, जिलामंत्री डा प्रदीप सेमवाल, महानगरमंत्री आचार्य: माधवप्रसादः,खण्डसंयोजक:, डा आनन्द जोशी, पूर्वजिलाध्यक्ष : मार्गदर्शक: डा सूर्यमोहन भट्टः, डा राजेश: शर्मा, श्री धीरज: बिष्टः, श्री संकेत कौशिकः, डा अनुमेहा जोशी, श्री नितीश: मैठाणी, श्री सौरभ: खण्डूरी,आचार्य: विकास:, भट्ट श्री सूरज: चमोली, कुमारी आद्या पौडेलः कुमारी यशश्री अन्ये च विविधकार्यकर्तारः उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button