संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

त्रिसंस्थानां संयुक्ततत्त्वावधाने भविष्यति श्रीमद्भगवद्गीतायां राष्ट्रिया सङ्गोष्ठी

व्याख्यानमालाया: दशमं पुष्पं महाविद्यालयाय गौरवास्पदं वरीवर्ति- 'डा. मूलचन्द्रशुक्ल:'

उत्तराखण्ड।रामनगर। संस्कृत-विभागः,इन्दिरा- गान्धी-राष्ट्रिय-जनजातीय-विश्वविद्यालय:, अमरकण्टकम् ,मध्यप्रदेशः,
संस्कृतविभागः,पी.एन.जी. राजकीय-स्नातकोत्तर-महाविद्यालयः, रामनगरम् (नैनीतालम्)उत्तराखण्डः तथा च चातुर्वेद-संस्कृत-प्रचार-संस्थानं, काशी(उ.प्र.) एतेषां त्रिसंस्थानां संयुक्त-तत्त्वावधाने श्रीमद्भगवद्गीता इत्यत्र अन्तर्जालीय-दशम-व्याख्यानरूपेण राष्ट्रिया संगोष्ठी आयोजयिष्यते ।

गोष्ठ्याः राष्ट्रियसंयोजकेन डॉ.चन्द्रकान्तदत्तशुक्लमहोदयेन महाविद्यालयस्य संस्कृतविभागाय अवसरप्रदानार्थं प्राचार्यः प्रोफेसर एम. सी. पाण्डेमहोदयः हर्षप्रकर्षं प्रस्तुवन् वक्ति यत् गीता-विषयकं दशमं व्याख्यानमिदं विद्यार्थिभिः सह सर्वसमाजं सन्मार्गं प्रति अग्रेसरिष्यति।
सहसमन्वयकेन डॉ. मूलचन्द्रशुक्लेन गोष्ठ्या: आयोजनसन्दर्भे उच्यते यत् महाविद्यालयाय इदं गौरवास्पदं वरीवर्ति ।
गोष्ठीयं 15-05-2023 दिनाङ्के सायंकाले षड्वादने संचालिता भविष्यति ।

कार्यक्रमेऽस्मिन् मुख्यवक्तृत्वेन प्रोफेसर जितेन्द्रकुमारशर्मणा “श्रीमद्भगवद्गीतायां समत्वयोगः एकः समकालिकविमर्शः” इति विषये वक्तव्यं प्रदास्यते विशिष्टवक्त्रा उपनिदेशकेन प्रोफेसर- विनोदकुमारगुप्तमहोदयेन “श्रीमद्भगवद्गीतायाम् आसुरीसम्पत् ” विषयेऽस्मिन् च स्वकीयं व्याख्यानं प्रस्तोस्यते।
अस्मात् व्याख्यानात् पूर्वं गीतायाः सप्तदशविविधविषयेषु व्याख्यानानि सम्पन्नानि। अस्याः गोष्ठ्याः आध्यक्ष्यं प्रोफेसर-आलोक- श्रोत्रियः,समन्वयकः प्राचार्यः प्रोफेसर एम. सी. पाण्डे, सह- समन्वयकः डॅा. मूलचन्द्रशुक्लः प्रभारी-संस्कृतविभागः , संयुक्त- संयोजकौ डॉ. त्र्यम्बकनाथ- पाण्डेयः सचिनदेवः द्विवेदी च इत्यादयो नामिताः वर्तन्ते।

कार्यक्रमस्य प्रसारणं “विश्वसंस्कृतकुटुम्बकम्” इति फेसबुकसमूहे संचालनञ्च जूम- पटलमाध्यमेन भविष्यति।
तत्र सम्पर्कमाध्यम:देशे च अमेरिकादिविदेशेषु वर्चुवलपाक्षिकीद्वारा एकादशीतिथौ श्रीमद्भगवद्गीताराष्ट्रियाव्याख्यानगोष्ठ्या: (दशमं पुष्पम्) इत्यत्र जना: Join Zoom Meeting
https://us06web.zoom.us/j/87560360803?pwd=WktYek16Q0Y2K1hER0ttLy8wZ1JOQT09 इत्यनेन सम्मेलनसम्पर्केण उपस्थिता: भविष्यन्ति च पञ्जीकरणसम्पर्कं
https://forms.gle/xV6v5hmu8t2sv3N18 इत्यनेन पूरयितुं शक्नुवन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button