उत्तराखण्डधार्मिकनैनीतालमनोरंजनविदेशविदेशव्यापार

तृतीयत्रिदिवसीययोगशिविरं वैदेशिक-अतिथिभिः सह समाप्त:

योग: निश्चयेन शिशूनां शारीरिक-मानसिकविकासाय उपयोगी वर्तते- "कैप्टन-सिमोन-राबिंसन्"

रामनगरम्।राजकीय-इण्टर- कालेज-छोई-रामनगरे सञ्चालितस्य त्रिदिवसीयस्य तृतीयनिःशुल्कविशेषयोग-शिविरस्य अद्य समापनं जातम्। पी.एन.जी.राजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरनैनीतालेन नमामिगङ्गे- योग एवं वैकल्पिक-चिकित्साविभागयोः संयुक्त-तत्त्वावधाने नवम-अन्ताराष्ट्रिये योगदिवसोपलक्ष्ये शिविरं सञ्चालितम्।अन्तिमे दिवसे योगशिविरस्य शुभारम्भः विदेशी-अतिथिः कैप्टन-सिमोन-रॉबिंसनमहोदयः, इंग्लैंडत: WALL OF KINDNESS इत्यस्य अन्ताराष्ट्रिय- ब्रांड-एंबेसडर इति च प्रधानाचार्यः सुरेशचन्द्रजोशी, नवीनचन्द्रजोशी शारीरिकशिक्षकमहोदय: मातुः सरस्वत्याः समीपे दीपं प्रज्वाल्य शुभारम्भं कृतवन्त:।
शिविरेऽस्मिन् योगप्रशिक्षकेण मुरलीधर-कापड़ीमहोदयेन छात्राणां कृते ऊं मन्त्रोच्चारणम्,गायत्रीमन्त्रनादः, सूर्यनमस्कार:, योगिक- जोगिंग, शिशूनां मानसिकैकाग्र्यस्य वर्धनार्थम् आसन-ध्यानादीनामभ्यासः कारितः । कैप्टन-सिमोन-राबिंसनमहोदयेन योग-शिविरे स्वीये वक्तव्ये योगस्य प्रशंसां कुर्वन् उक्तं यत् योगो निश्चयेन शिशूनां शारीरिक-मानसिकविकासाय उपयोगी वर्तते।शारीरिकशिक्षकः नवीनचन्द्र-जोशी-महोदयः निःशुल्क- योग-शिविरस्य आयोजनार्थं महाविद्यालयीय- योगविभागेन सह प्राचार्यमहोदयस्य धन्यवादं कृतवान्। महाविद्यालयीय-प्राचार्याणां प्रोफेसर-एम.सी.पाण्डेमहोदयानां मार्गनिर्देशने विविधानि योगशिविराणि आयोजितानि ।तत्र अस्मिन् शिविरे छात्र-छात्राणां मध्ये योग-प्रतियोगिता आयोजिता तत्र विजेतृप्रतिभागिभ्यः पुरस्कारान् प्रदाय तेषां समुज्ज्वल-भविष्याय कामनां कृतवन्तः। कुलानुशासकः प्रोफे. जी. सी. पन्तमहोदयो विद्यार्थिभ्यः शुभकामनां प्रयच्छन् वक्ति यत् योगः समाजस्य प्रत्येकं जनं समुपयोगी वरीवर्ति।पी. जी. डिप्लोमायोगस्य संयोजकः डॉ सुमनकुमारः,स्नातकोत्तरयोगस्य संयोजकः डॉ मूलचन्द्रशुक्लः, नमामिगङ्गे समन्वयिका डॉ. भावनापन्तः च स्वीये उद्बोधने वदन्ति यत् छात्र-छात्राणाम् उत्तम- स्वास्थ्यलाभाय योगो महत्त्वपूर्णं स्थानं बिभर्ति। पूर्वयोगछात्रः हरिशंकर देवः प्रकृतिनिर्देशकरूपेण वैदेशिक-अतिथिभिः सह आसीत्। योगशिविरे संतोषः, विनीता, प्रियंका ,जगदीशः,महेन्द्र: आदयः राजकीय-इंटर-कालेज इत्यस्य छात्र-छात्राः शिक्षकशिक्षिकाः समुपस्थिताः आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button