संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

राजकीयमहाविद्यालय-कण्वघाट्यां संस्कृतिज्ञानपरीक्षाया: प्रमाणपत्रवितरणम् अभवत्

तृतीयवर्षस्नातिका छात्रा रितिका कुमारी कोटद्वारस्तरे प्रथमस्थानं प्राप्तवती ।

पौडीजनपदस्य उपजनपदकोटद्वारे राजकीयमहाविद्यालयकण्वघाटीकोटद्वारे प्रमाणपत्रवितरणकार्यक्रम: सम्पन्नोभवत् ।
गायत्रीतीर्थशान्तिकुञ्जहरिद्वारद्वारा नवम्बरमासे भारतस्य संस्कृतिमवगन्तुं परीक्षाकार्यक्रम: सर्वत्र देशे संजातं ।
पौडीजनपदस्य समन्वयकस्य श्रीहरीशपोखरियालवर्यस्य संयोजने समस्तमहाविद्यालयेषु संस्कृतिज्ञानपरीक्षा आयोजिता आसीत् । कण्वघाटीमहाविद्यालये
भारतीयसंस्कृतिज्ञानपरीक्षाया: 2022-23 सत्रस्य परीक्षा 05 नवम्बर 2022 दिनांके सम्पन्न: जात: । कोटद्वारसंयोजकेन कुलदीपमैन्दोलाद्वारा कथितं यत् प्राथमिककक्षास्तरे च (कक्षा माध्यमिकस्तरे महाविद्यालयस्तरे च परीक्षाया: आयोजनम् अभवत् । यस्यां परीक्षायां महाविद्यालयस्तरे राजकीयमहाविद्यालयकण्वघाटीकोटद्वारस्य तृतीयवर्षस्नातिका छात्रा रितिका कुमारी प्रथम स्थानं प्राप्तवती । महाविद्यालयस्य प्राचार्यः प्रो.विजयकुमार-अग्रवालः प्रसन्नतां प्रकटयन् छात्राया: अभिनन्दनं कृतवान् तथा च अन्ये छात्राः तया शिक्षितुं प्रोत्साहितवन्तः। महाविद्यालयस्य वरिष्ठप्राध्यापक: भोलानाथवर्य: छात्रेभ्य: परीक्षासु प्रतिभागं ग्रहीतुं च जीवने सद्गुणं स्वीकर्तुं मार्गदर्शने सम्बोधितवान् । श्रीकुलदीपमैन्दोला इत्यनेन उक्तपरीक्षायाः उद्देश्यं प्रकाशं कृत्वा उक्तं यत् एषा परीक्षा न केवलं उत्तराखण्डे वा देशे अपितु सम्पूर्णे विश्वे एव प्रचलति। सर्वै: देशस्य संस्कृति: अग्रे वहनीया । देशस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा । महाविद्यालयस्य संस्कृतिज्ञानपरीक्षाया: संयोजक: डॉ. गीतारावतशाह: अपि कार्यक्रमसंचालनं कुर्वन्ती सर्वसहप्रतिभागिनां कृते प्रमाणपत्रप्राप्तये अभिनन्दनं कृतवती। अवसरेस्मिन् महाविद्यालयस्य प्राध्यापक: प्रो.अरविन्दसिंह:, डॉ. भोलानाथ:, प्रो.अशोककुमारमित्तल:, डॉ. गीतारावत:, डॉ. इंदुमलिक:, डॉ. संदीपकुमार:, डॉ. कुमारगौरवजैन:, डॉ. विनयदेवलाल:, डॉ. कपिल: , डॉ. अनुरागशर्मा, डॉ. उषासिंह:, श्रीमती गीता, श्री गिरीशचंद्र:, श्रीसतकुमार:, मिसमनीषासरवालिया, श्रीमती कुसुम:, आशीषधीमान:, प्रेरणा, जयदीपनेगी, रोहनवेद:, रानी, ​​संजयकण्डारी, सन्नी, आशुतोषरावत:, अजयरावत:, जितेन्द्र:, रविन्द्रगुसाईं सुमननेगी व पवनकुमार: एवं त्रिसंकायस्य महाविद्यालयस्य अनेकछात्रछात्रा: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button