संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ीहरिद्वार

राज्यस्तरीययोग-प्रतियोगितायां रा.इ.का.काण्डाखालस्य छात्राणाम् विशिष्ट: प्रभाव:

पौडीजनपदस्यैव यशिका नेगी प्रथमा, मानसीरावतद्वितीया, प्रियांशी तृतीया, सन्तोषी चतुर्थस्थानं प्राप्तवत्य:

• सार्थककण्डवाल: स्वर्णपदकद्वयं योगासने विजितवान्

उत्तराखण्ड।विश्वफिटनेसफेडरेशनयोगचैम्पियनशिप-हरिद्वारे राज्यस्तरीययोगप्रतियोगितायां पौड़ीजनपदस्य राजकीय-इण्टर-कॉलेज-काण्डाखालस्य छात्राणामेव विशिष्ट: प्रभाव: आसीत् ।

राजकीय-इण्टर-कालेजकाण्डाखालस्य पारम्परिकयोगासनप्रतियोगितायां कनिष्ठबालिकावर्गे यशिका नेगी प्रथमा, मानसीरावतद्वितीया, प्रियांशी तृतीया, संतोषी रावतचतुर्थस्थाने आसन् तु बालकेषु सार्थककण्डवालप्रथमस्थानं प्राप्तवान् ।

पौडीजनपदेन अधिकतमपदकानि सम्प्राप्तानि । सार्थककण्डवाल: स्वर्णपदकद्वये योगासनविजेता अभवत् ।

सहैव पौड़ीजनपदस्य बालकनां योगासनप्रस्तुति: मुख्यातिथिना श्रीमदनकौशिकद्वारा प्रशंसिता अभवत् । कौशिकवर्येण सर्वेषां बालकानाम् उत्तमप्रदर्शनस्य कृते अभिनन्दनं कृतम्। सर्वेभ्य: विजेतृभ्य: श्रीमदनकौशिक: पुरस्कारं सम्प्रदाय सम्मानितवान् ।

संस्कृताचार्यस्य योगाचार्यस्य व्यायामशिक्षकस्य च श्रीराकेशकण्डवालस्य मार्गदर्शने रा.इ.का.काण्डाखालस्य छात्रा: प्रतिदिनमपि योगं कुर्वन्ति च कारयन्ति । योगक्षेत्रेपि अयम्महोदय: गिनीजविश्वपुस्तके अपि उल्लिखितोस्ति । सहैव अस्य पुत्र: सार्थककण्डवाल: संस्कारशालायाम् अपि अन्यान् छात्रान् कोटद्वारे योगं शिक्षयति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button