उत्तराखण्डदेहरादून

युवा संवाद” इत्यस्मिन् कार्यक्रमे छात्रै: सह वार्तालापं कृतवान्धामीवर्य:

देहरादून। मुख्यमन्त्री श्री पुष्करसिंहधामीवर्य: मुख्यमन्त्री-आवासे ‘हिल की बात: इत्यन्तर्गतं “युवा संवाद” इत्यस्मिन् कार्यक्रमे छात्रै: सह वार्तालापं कृतवान् । अस्मिन् कालखण्डे छात्रैः उत्तराखण्डस्य लोकपरम्परा-संस्कृतेः आधारेण प्रस्तुतिः, भाषण-काव्य-प्रस्तुतिः च दत्ता । मुख्यमन्त्री श्री धामी इत्यनेन उक्तं यत् उत्तराखण्डः प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य मार्गदर्शनेन विकासस्य दिशि तीव्रगत्या गच्छति। देवभूमि- -उत्तराखण्डेन सह तस्य कर्म-मर्मयोः सम्बन्धः अस्ति । अद्य प्रधानमन्त्रिणः नेतृत्वे देशः ‘एक भारत श्रेष्ठ भारत’ इत्यस्मिन् दिशि तीव्रगत्या गच्छति। मुख्यमन्त्री उक्तवान् यत् २०२५ तमवर्षपर्यन्तं उत्तराखण्डं मादकद्रव्यमुक्तं कर्तुं लक्ष्यं निर्धारितम् अस्ति। भर्तीपरीक्षासु पूर्णपारदर्शिता सुनिश्चित्य प्रतिलिपिविरोधी कठोराधिनियमं कार्यान्वितम् अस्ति। सः अवदत् यत् युवानः स्वजीवने यस्मिन् क्षेत्रे चयनं कुर्वन्ति तस्मिन् पूर्णसमर्पणेन कार्यं कुर्वन्तु। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः उच्चशिक्षायाः प्रवर्धनार्थं प्रयत्नाः कुर्वन् अस्ति। उत्तराखण्डस्य युवकानां कृते रोजगारस्य स्वरोजगारस्य च पर्याप्ताः अवसराः प्राप्तव्याः। अस्मिन् दिशि सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। युवानः न केवलं कार्यान्विताः भवेयुः, अपितु कार्यप्रदातारः अपि भवेयुः इति अस्माकं प्रयासः। अस्मिन् अवसरे यूकोस्टस्य महानिदेशकः दुर्गेशपन्तमहोदयः, ओहो रेडियोतः आरजे काव्यमहोदयः तथा राज्यस्य विभिन्नक्षेत्रेभ्यः युवानः उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button