संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

राजभवनस्य ‘देवभूमिसंवाद’पत्रिकाया: विमोचनम् अभवत्।

पूर्वराष्ट्रपति: श्रीरामनाथकोविन्द: उत्तराखण्डस्य त्रिदिवसीययात्रायां राजभवने सम्प्राप्त: ।

देहरादून। पूर्वराष्ट्रपति: श्री रामनाथकोविन्द: उत्तराखण्डस्य त्रिदिवसीययात्रायां शुक्रवासरे राजभवनदेहरादूने सम्प्राप्त: । राजभवने तस्य सम्माने भोजस्य आयोजनं कृतम्, यस्मिन् राज्यपालः लेफ्टिनेंट जनरलगुरमीतसिंह: (सेवानिवृत्त:), मुख्यमन्त्री पुष्करसिंहधामी, सांसद् मालाराज्यलक्ष्मीशाह इत्यादयः बहवः गणमान्यजनाः समुपस्थिता: आसन् । अस्मिन् अवसरे राजभवने सांस्कृतिकसन्ध्यायाः अपि आयोजनं कृतम् यस्मिन् संस्कृतिविभागस्य कलाकारैः सुन्दराः कार्यक्रमाः नृत्यानि च प्रस्तुतानि। एतेषु सांस्कृतिककार्यक्रमेषु उत्तराखण्डस्य समृद्धलोककलानां दर्शनं दृश्यते स्म ।

‘देवभूमिसंवाद’पत्रिकाया: विमोचनम् अभवत्।
एतस्मिन् समये पूर्वराष्ट्रपतिः, राज्यपालः, मुख्यमन्त्री च उत्तराखण्डराजभवनद्वारा प्रकाश्यमानाया: ‘देवभूमिसंवाद’पत्रिकाया: विमोचनं कृतवन्त: । राजभवनस्य पत्रिकादेवभूमि संवादः प्रति ०६ मासेषु प्रकाश्यते । अस्यां पत्रिकायां श्री. राज्यपालस्य कार्यक्रमाः, सभाः, भाषणाः, अन्ये च क्रियाकलापाः अभिलेखिताः सन्ति । देवभूमिसंवादस्य सम्पादनं संयुक्तसंचालक: सूचनात: डॉ. नितिन-उपाध्याय:, सह सम्पादक: श्री संजूप्रसादध्यानी एवं सूचनाधिकारी श्री-अजनेशराणा इत्येतै: क्रियते ।

कार्यक्रमेस्मिन् श्रीमती सविता कोविन्द:, श्रीमती गुरमीतकौर:, श्रीमती गीता धामी, डीजीपी अशोककुमार: आदय: गणमान्यजना: उपस्थिता: आसन् । कार्यक्रमे सहैव उपस्थितेषु सर्वेभ्य: गणमान्यजनेभ्य: राज्यपालसचिवेन श्रीरविनाथरमणवर्येण धन्यवादा: वितरिता:। कार्यक्रमस्य संचालनं वित्तनियंत्रक: डॉ. तृप्तिश्रीवास्तवः अकरोत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button