संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

राजीवगांधीनवोदयविद्यालये प्रवेशपरीक्षायां राजकीयप्राथमिकविद्यालय-कोटडी-रिखणीखालत: पौडीगढ़वालत: चतुर्णां छात्राणां चयनं

कोटद्वार।अखिलरावत: पुत्र: श्रीसुनीलसिंह: “बिनिता” रावत:, अंशरावत: पुत्र: श्री देवेन्द्रसिंह: “मंजू” रावत: ,मानवी गुसांई पुत्री श्री लक्ष्मणसिंह: “दीपा” गुसांई एवं सिमरनरावत: पुत्री श्री सूरजभान: “रजनी” रावत: निरन्तरं एकादशवर्षेपि : प्रखंडरिखणीखालस्य राजकीयप्राथमिकविद्यालयकोटडीत: चतुर्णां छात्राणां राजीवगांधीनवोदयविद्यालये संतूधारपौडीगढ़वाले शैक्षणिकसत्रे 2022-23 पंचमकक्षाया: कृते चयनिता: अभवन् , यस्य पुष्टि: प्राचार्येण राजीवगांधीनवोदयविद्यालयसंतूधारपौड़ीत: रामनगर-उत्तराखंडपरिषदपरीक्षात: सचिवेन दूरवाणीद्वारा कृतं।
ज्ञातव्यं यत् सर्वकारीप्राथमिकविद्यालयः कोटडी विगतवर्षेभ्यः बहु-आयामीकार्येषु, व्यक्तित्वविकासे सृजनात्मकक्रियाकलापेषु सांस्कृतिकसामाजिकशैक्षिकप्रवर्धनयोः मण्डलात् राज्यस्तरं यावत् विशिष्टोयं वर्तते । यत्र दैनिकनवाचारे, शिक्षणसंवादे, क्रीडायां, स्वप्नानां उड्डयनं गणितं आङ्ग्लप्रतिभासु, सांस्कृतिककार्यक्रमेषु, प्रतियोगितापरीक्षासु च सहभागिता सुनिश्चिता भवति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button